ऋग्वेद - मण्डल 10/ सूक्त 74/ मन्त्र 4
आ तत्त॑ इन्द्रा॒यव॑: पनन्ता॒भि य ऊ॒र्वं गोम॑न्तं॒ तितृ॑त्सान् । स॒कृ॒त्स्वं१॒॑ ये पु॑रुपु॒त्रां म॒हीं स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ॥
स्वर सहित पद पाठआ । तत् । ते॒ । इ॒न्द्र॒ । आ॒यवः॑ । प॒न॒न्त॒ । अ॒भि । ये । ऊ॒र्वम् । गोऽम॑न्तम् । तितृ॑त्सान् । स॒कृ॒त्ऽस्व॑म् । ये । पु॒रु॒ऽपु॒त्राम् । म॒हीम् । स॒हस्र॑ऽधाराम् । बृ॒ह॒तीम् । दुधु॑क्षन् ॥
स्वर रहित मन्त्र
आ तत्त इन्द्रायव: पनन्ताभि य ऊर्वं गोमन्तं तितृत्सान् । सकृत्स्वं१ ये पुरुपुत्रां महीं सहस्रधारां बृहतीं दुदुक्षन् ॥
स्वर रहित पद पाठआ । तत् । ते । इन्द्र । आयवः । पनन्त । अभि । ये । ऊर्वम् । गोऽमन्तम् । तितृत्सान् । सकृत्ऽस्वम् । ये । पुरुऽपुत्राम् । महीम् । सहस्रऽधाराम् । बृहतीम् । दुधुक्षन् ॥ १०.७४.४
ऋग्वेद - मण्डल » 10; सूक्त » 74; मन्त्र » 4
अष्टक » 8; अध्याय » 3; वर्ग » 5; मन्त्र » 4
अष्टक » 8; अध्याय » 3; वर्ग » 5; मन्त्र » 4
पदार्थः -
(इन्द्र) हे राजन् ! (ते) तव (आयवः) प्रजाजनाः “आयवः-मनुष्यनाम” [निघ० २।३] (तत्-आ-अभिपनन्त) तदा समन्तात्-अभि-स्तुवन्ति प्रशंसन्ति “पन स्तुतौ” [भ्वादि०] (ये गोमन्तम्-ऊर्वं तितृत्सान्) पृथिवीमन्तं भूमिमन्तं भूमेराच्छादकं धान्यम् “ऊर्वम्-आच्छादकम्” [ऋ० ४।२८।५ दयानन्दः] छेदयितुमिच्छन्ति, एवं ते प्रसन्नतामनुभवन्तः (ये सकृत्स्वं पुरुपुत्राम्) ये हि सकृदेवोत्पादयित्री बहुधान्यादिपुत्रवतीम् (सहस्रधारां बृहतीं महीं दुधुक्षन्) सहस्रजलधारावतीं महतीं महत्त्वपूर्णां पृथिवीं दुहन्ति ततो धान्यफलरसादिकं गृह्णन्ति ॥४॥