Loading...
ऋग्वेद मण्डल - 10 के सूक्त 74 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 74/ मन्त्र 6
    ऋषिः - गौरिवीतिः देवता - इन्द्र: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    यद्वा॒वान॑ पुरु॒तमं॑ पुरा॒षाळा वृ॑त्र॒हेन्द्रो॒ नामा॑न्यप्राः । अचे॑ति प्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी॑मु॒श्मसि॒ कर्त॑वे॒ कर॒त्तत् ॥

    स्वर सहित पद पाठ

    यत् । व॒वान॑ । पु॒रु॒ऽतम॑म् । पु॒रा॒षाट् । आ । वृ॒त्र॒ऽहा । इन्द्रः॑ । नामा॑नि । अ॒प्राः॒ । अचे॑ति । प्र॒ऽसहः॑ । पतिः॑ । तुवि॑ष्मान् । यत् । ई॒म् । उ॒श्मसि॑ । कर्त॑वे । कर॑त् । तत् ॥


    स्वर रहित मन्त्र

    यद्वावान पुरुतमं पुराषाळा वृत्रहेन्द्रो नामान्यप्राः । अचेति प्रासहस्पतिस्तुविष्मान्यदीमुश्मसि कर्तवे करत्तत् ॥

    स्वर रहित पद पाठ

    यत् । ववान । पुरुऽतमम् । पुराषाट् । आ । वृत्रऽहा । इन्द्रः । नामानि । अप्राः । अचेति । प्रऽसहः । पतिः । तुविष्मान् । यत् । ईम् । उश्मसि । कर्तवे । करत् । तत् ॥ १०.७४.६

    ऋग्वेद - मण्डल » 10; सूक्त » 74; मन्त्र » 6
    अष्टक » 8; अध्याय » 3; वर्ग » 5; मन्त्र » 6

    पदार्थः -
    (यत्) यतः (पुरुतमं ववान) बहुप्रसिद्धतमं बलवन्तं शत्रुं वनति हिनस्ति “वनुष्यति हन्तिकर्मा” [निरु० ५।२] (पुरुषाट्) शत्रुपुराणामभिभविता (वृत्रहा) आवरकाणामाक्रमकारिणां हन्ता (इन्द्रः) राजा (नामानि-अप्राः) यो जलानीव शत्रुसैन्यानि सङ्ग्रामभूमौ पूरयति प्रसारयति (अचेति) इति प्रसिद्ध्यति (प्रसहः-पतिः) प्रकृष्टबलस्य स्वामी (तुविष्मान्) स्वयं बहुबलवान् “तुविष्मान् बहुबलाकर्षणयुक्तः” [ऋ० २।१२।१२ दयानन्दः] (यत्-ईम् कर्त्तवे-उश्मसि) यदेव वयं कर्त्तुं कामयामहे (तत् करत्) तत् करोति सः ॥६॥

    इस भाष्य को एडिट करें
    Top