Loading...
ऋग्वेद मण्डल - 10 के सूक्त 74 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 74/ मन्त्र 5
    ऋषिः - गौरिवीतिः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    शची॑व॒ इन्द्र॒मव॑से कृणुध्व॒मना॑नतं द॒मय॑न्तं पृत॒न्यून् । ऋ॒भु॒क्षणं॑ म॒घवा॑नं सुवृ॒क्तिं भर्ता॒ यो वज्रं॒ नर्यं॑ पुरु॒क्षुः ॥

    स्वर सहित पद पाठ

    शची॑ऽवः । इन्द्र॑म् । अव॑से । कृ॒णु॒ध्व॒म् । अना॑नतम् । द॒मय॑न्तम् । पृ॒त॒न्यून् । ऋ॒भु॒क्षण॑म् । म॒घऽवा॑नम् । सु॒ऽवृ॒क्तिम् । भर्ता॑ । यः । वज्र॑म् । नर्य॑म् । पु॒रु॒ऽक्षुः ॥


    स्वर रहित मन्त्र

    शचीव इन्द्रमवसे कृणुध्वमनानतं दमयन्तं पृतन्यून् । ऋभुक्षणं मघवानं सुवृक्तिं भर्ता यो वज्रं नर्यं पुरुक्षुः ॥

    स्वर रहित पद पाठ

    शचीऽवः । इन्द्रम् । अवसे । कृणुध्वम् । अनानतम् । दमयन्तम् । पृतन्यून् । ऋभुक्षणम् । मघऽवानम् । सुऽवृक्तिम् । भर्ता । यः । वज्रम् । नर्यम् । पुरुऽक्षुः ॥ १०.७४.५

    ऋग्वेद - मण्डल » 10; सूक्त » 74; मन्त्र » 5
    अष्टक » 8; अध्याय » 3; वर्ग » 5; मन्त्र » 5

    पदार्थः -
    (शचीवः) हे कर्मवन्तः कर्मकर्त्तारः ! “शची कर्मनाम” [निघ० २।१] ‘व्यत्ययेनैकवचनम्’ (अवसे) रक्षणाय (पृतन्यून् दमयन्तम्) सङ्ग्राममिच्छतः शत्रून् स्ववशे नयन्तं (अनानतम्) यः केनापि न-आनतीकर्त्तुं वशीकर्त्तुं शक्यस्तं महान्तं महच्छक्तिमन्तम् “अनानतस्य महतः” [निरु० १२।२०] (ऋभुक्षणं मघवानं सुवृक्तिम्) ऋभूनां मेधाविनां शिल्पिनां निवासकम्-“ऋभवः-मेधाविनः” [निघ० ५।१५] “ऋभू रथस्येवाङ्गानि सन्दधत् परुषापरुः” [अथर्व० ४।१२।७] प्रशस्तधनवन्तं सुष्ठु दुःखवर्जनकर्त्तारं (इन्द्रं कृणुध्वम्) स्वकीयं राजानं कुरुत (यः पुरुक्षुः) यो हि बहु भोजनीयान्नादिमान् “पुरुक्षुः पुरूंषि क्षून्यन्नानि यस्य सः” [ऋ० १।६५।५ दयानन्दः] (नर्यं वज्रं भर्त्ता) नरेभ्यः प्रजाजनेभ्यो हितकरमोजो धारयिता “वज्रो वा ओजः” [श० ८।४।१।२०] ॥५॥

    इस भाष्य को एडिट करें
    Top