ऋग्वेद - मण्डल 10/ सूक्त 77/ मन्त्र 3
ऋषिः - स्यूमरश्मिर्भार्गवः
देवता - मरूतः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा॒ त्मना॑ रिरि॒च्रे अ॒भ्रान्न सूर्य॑: । पाज॑स्वन्तो॒ न वी॒राः प॑न॒स्यवो॑ रि॒शाद॑सो॒ न मर्या॑ अ॒भिद्य॑वः ॥
स्वर सहित पद पाठप्र । ये । दि॒वः । पृ॒थि॒व्याः । न । ब॒र्हणा॑ । त्मना॑ । रि॒रि॒च्रे । अ॒भ्रात् । न । सूर्यः॑ । पाज॑स्वन्तः । न । वी॒राः । प॒न॒स्यवः॑ । रि॒शाद॑सः । न । मर्याः॑ । अ॒भिऽद्य॑वः ॥
स्वर रहित मन्त्र
प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान्न सूर्य: । पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः ॥
स्वर रहित पद पाठप्र । ये । दिवः । पृथिव्याः । न । बर्हणा । त्मना । रिरिच्रे । अभ्रात् । न । सूर्यः । पाजस्वन्तः । न । वीराः । पनस्यवः । रिशादसः । न । मर्याः । अभिऽद्यवः ॥ १०.७७.३
ऋग्वेद - मण्डल » 10; सूक्त » 77; मन्त्र » 3
अष्टक » 8; अध्याय » 3; वर्ग » 10; मन्त्र » 3
अष्टक » 8; अध्याय » 3; वर्ग » 10; मन्त्र » 3
पदार्थः -
(ये बर्हणा त्मना) ये जीवन्मुक्ता विद्वांसः खलु प्रवृद्धेनात्मबलेन (दिवः-पृथिव्याः) द्युलोकात्-द्युलोकज्ञानात् पृथिवीलोकात्-पृथिवीलोकज्ञानात् (अभ्रात्-न) अभ्रादभ्रवतोऽन्तरिक्षलोकज्ञानात् “अभ्रशब्दादकारो मत्वर्थीयश्छान्दसः” (न प्र रिरिच्रे) नहि प्ररिक्ताः परिवर्जिताः सन्ति, किन्तु (सूर्यः-न) सूर्य इव सन्ति, यथा सूर्यो द्युलोकेन पृथिव्या-अभ्रमयेनान्तरिक्षेण सह च न वियुक्तोऽस्ति (पाजस्वन्तः-वीराः न पनस्यवः) बलवन्तो वीरा इव ज्ञानवन्तः स्वप्रशंसायोग्याः (रिशादसः-न) हिंसाभावप्रक्षेप्तार इव (अभिद्यवः-मर्याः) ज्ञानेनाभिद्योतमाना मनुष्याः सन्ति तेषां सङ्गतिः कार्येति शेषः ॥३॥