Loading...
ऋग्वेद मण्डल - 10 के सूक्त 77 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 77/ मन्त्र 4
    ऋषिः - स्यूमरश्मिर्भार्गवः देवता - मरूतः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    यु॒ष्माकं॑ बु॒ध्ने अ॒पां न याम॑नि विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ । वि॒श्वप्सु॑र्य॒ज्ञो अ॒र्वाग॒यं सु व॒: प्रय॑स्वन्तो॒ न स॒त्राच॒ आ ग॑त ॥

    स्वर सहित पद पाठ

    यु॒ष्माक॑म् । बु॒ध्ने । अ॒पाम् । न । याम॑नि । वि॒थु॒र्यति॑ । न । म॒ही । श्र॒थ॒र्यति॑ । वि॒श्वऽप्सुः॑ । य॒ज्ञः । अ॒र्वाक् । अ॒यम् । सु । वः॒ । प्रय॑स्वन्तः । न । स॒त्राचः॑ । आ । ग॒त॒ ॥


    स्वर रहित मन्त्र

    युष्माकं बुध्ने अपां न यामनि विथुर्यति न मही श्रथर्यति । विश्वप्सुर्यज्ञो अर्वागयं सु व: प्रयस्वन्तो न सत्राच आ गत ॥

    स्वर रहित पद पाठ

    युष्माकम् । बुध्ने । अपाम् । न । यामनि । विथुर्यति । न । मही । श्रथर्यति । विश्वऽप्सुः । यज्ञः । अर्वाक् । अयम् । सु । वः । प्रयस्वन्तः । न । सत्राचः । आ । गत ॥ १०.७७.४

    ऋग्वेद - मण्डल » 10; सूक्त » 77; मन्त्र » 4
    अष्टक » 8; अध्याय » 3; वर्ग » 10; मन्त्र » 4

    पदार्थः -
    (युष्माकं बुध्ने) हे जीवन्मुक्ता विद्वांसः ! युष्माकं बोधने वेदज्ञाने “बुध्नः-यो बोधयति सर्वान् पदार्थान्” [ऋ० १।९६।६ दयानन्दः] (अपां न यामनि मही न विथुर्यति न श्रथर्यति) यथा जलानां गमने पृथिवी न व्यथां गच्छति “विथुराव्यथनानि” [ऋ० ६।२५।३ दयानन्दः] न हिंसिता भवति “व्यथ वधकर्मसु” [निघ० २।१९] तथाऽस्माकमन्तःस्थली न व्यथेते हिंस्यते (वः-अयम्-यज्ञः-विश्वप्सुः-अर्वाक्) एष युष्माकं विश्वव्यापी विविधरूपो वा “विश्वप्सु विविधरूपम्” [ऋ० ६।२५।३ दयानन्दः] ज्ञानयज्ञोऽस्मदभिमुखं सुष्ठु भवतु (प्रयस्वन्तः सत्राचः-आगत) प्रशस्तज्ञानवन्तः “प्रयस्वन्तः प्रशस्तानि प्रयांसि प्रज्ञानानि विद्यन्ते येषां ते” [ऋ० १।६०।३ दयानन्दः] “सत्रा सत्यनाम” [निघ० ३।१०] सत्यमञ्चन्ति प्राप्नुवन्ति च सत्यं ब्रह्म प्राप्ता आगच्छत ॥४॥

    इस भाष्य को एडिट करें
    Top