Loading...
ऋग्वेद मण्डल - 10 के सूक्त 77 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 77/ मन्त्र 8
    ऋषिः - स्यूमरश्मिर्भार्गवः देवता - मरूतः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा॑ आदि॒त्येन॒ नाम्ना॒ शम्भ॑विष्ठाः । ते नो॑ऽवन्तु रथ॒तूर्म॑नी॒षां म॒हश्च॒ याम॑न्नध्व॒रे च॑का॒नाः ॥

    स्वर सहित पद पाठ

    ते । हि । य॒ज्ञेषु॑ । य॒ज्ञिया॑सः । ऊमाः॑ । आ॒दि॒त्येन॑ । नाम्ना॑ । शम्ऽभ॑विष्ठाः । ते । नः॒ । अ॒व॒न्तु॒ । र॒थ॒ऽतूः । म॒नी॒षाम् । म॒हः । च॒ । याम॑न् । अ॒ध्व॒रे । च॒का॒नाः ॥


    स्वर रहित मन्त्र

    ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्ना शम्भविष्ठाः । ते नोऽवन्तु रथतूर्मनीषां महश्च यामन्नध्वरे चकानाः ॥

    स्वर रहित पद पाठ

    ते । हि । यज्ञेषु । यज्ञियासः । ऊमाः । आदित्येन । नाम्ना । शम्ऽभविष्ठाः । ते । नः । अवन्तु । रथऽतूः । मनीषाम् । महः । च । यामन् । अध्वरे । चकानाः ॥ १०.७७.८

    ऋग्वेद - मण्डल » 10; सूक्त » 77; मन्त्र » 8
    अष्टक » 8; अध्याय » 3; वर्ग » 11; मन्त्र » 3

    पदार्थः -
    (ते हि) ते मरुता जीवन्मुक्ता विद्वांसः (यज्ञेषु यज्ञियासः-ऊमाः) ज्ञानयज्ञेषु यजनार्हा पूजार्हाः सत्कारयोग्याः पालकाः (आदित्येन नाम्ना शम्भविष्ठाः) अदितिरखण्डसुखं सम्पत्तिरूपमुक्तौ भवेनानन्दरसेन जनानामतिशयितकल्याण-कारकाः सन्ति (ते रथतूः) ते ये रमणीयं मोक्षम्प्रति गमयितारः प्रेरयितारः (अध्वरे यामन्) अध्यात्मयज्ञरूपे मार्गे वर्तमानानां (नः मनीषां महः-च चकानाः) अस्माकं प्रज्ञां यज्ज्ञानं च कामयमानाः (अवन्तु) अस्मान् शिष्यत्वेन रक्षन्तु श्रावयन्तु ॥८॥

    इस भाष्य को एडिट करें
    Top