Loading...
ऋग्वेद मण्डल - 10 के सूक्त 77 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 77/ मन्त्र 7
    ऋषिः - स्यूमरश्मिर्भार्गवः देवता - मरूतः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा॑शत् । रे॒वत्स वयो॑ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ॥

    स्वर सहित पद पाठ

    यः । उ॒त्ऽऋचि॑ । य॒ज्ञे । अ॒ध्व॒रे॒ऽस्थाः । म॒रुत्ऽभ्यः॑ । न । मानु॑षः । ददा॑शत् । रे॒वत् । सः । वयः॑ । द॒ध॒ते॒ । सु॒ऽवीर॑म् । सः । दे॒वाना॑म् । अपि॑ । गो॒ऽपी॒थे । अ॒स्तु॒ ॥


    स्वर रहित मन्त्र

    य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत् । रेवत्स वयो दधते सुवीरं स देवानामपि गोपीथे अस्तु ॥

    स्वर रहित पद पाठ

    यः । उत्ऽऋचि । यज्ञे । अध्वरेऽस्थाः । मरुत्ऽभ्यः । न । मानुषः । ददाशत् । रेवत् । सः । वयः । दधते । सुऽवीरम् । सः । देवानाम् । अपि । गोऽपीथे । अस्तु ॥ १०.७७.७

    ऋग्वेद - मण्डल » 10; सूक्त » 77; मन्त्र » 7
    अष्टक » 8; अध्याय » 3; वर्ग » 11; मन्त्र » 2

    पदार्थः -
    (यः-अध्वरेष्ठाः-मानुषः) योऽध्यात्ममार्गवति योगसमाधौ स्थितो जनः (उदृचि) उत्कृष्टस्तुतिमति यज्ञे-ज्ञानयज्ञे (न ददाशत्) सम्प्रति स्वात्मानं ददाति (मरुद्भ्यः-सुवीरम्-रेवत्-वयः-दधते) स शोभनप्राणयुक्तं मोक्षैश्वर्य्यवज्जीवनं धारयति “दध धारणे” [भ्वादि] तथा (सः-गोपीथे-देवानाम्-अस्तु) स खलु सोमपाने “गोपीथाय सोमपानाय” [निरु० १०।३६] शान्तपरमानन्दरस-पाने जीवन्मुक्तानां मध्ये भवतु ॥७॥

    इस भाष्य को एडिट करें
    Top