Loading...
ऋग्वेद मण्डल - 10 के सूक्त 81 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 81/ मन्त्र 7
    ऋषिः - विश्वकर्मा भौवनः देवता - विश्वकर्मा छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम । स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ॥

    स्वर सहित पद पाठ

    वा॒चः । पति॑म् । वि॒श्वऽक॑र्माणम् । ऊ॒तये॑ । म॒नः॒ऽजुव॑म् । वाजे॑ । अ॒द्य । हु॒वे॒म॒ । सः । नः॒ । विश्वा॑नि । हव॑नानि । जो॒ष॒त् । वि॒श्वऽश॑म्भूः । अव॑से । सा॒धुऽक॑र्मा ॥


    स्वर रहित मन्त्र

    वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्या हुवेम । स नो विश्वानि हवनानि जोषद्विश्वशम्भूरवसे साधुकर्मा ॥

    स्वर रहित पद पाठ

    वाचः । पतिम् । विश्वऽकर्माणम् । ऊतये । मनःऽजुवम् । वाजे । अद्य । हुवेम । सः । नः । विश्वानि । हवनानि । जोषत् । विश्वऽशम्भूः । अवसे । साधुऽकर्मा ॥ १०.८१.७

    ऋग्वेद - मण्डल » 10; सूक्त » 81; मन्त्र » 7
    अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 7

    पदार्थः -
    (अद्य वाजे) अद्य जीवनसंग्रामे “वाजः संग्रामनाम” [निघ० २।१७] (मनोजुवं विश्वकर्माणं वाचस्पतिम्) मनःप्रेरकं विश्वरचयितारं ज्ञानदातारं परमात्मानम् (ऊतये हुवेम) रक्षायै-आमन्त्रये (सः-विश्व-शंभू: साधुकर्मा) स सर्वकल्याणस्य भावयिता यथार्थ-कर्मविधायकः (नः-अवसे विश्वानि हवनानि जोषत्) अस्माकं रक्षणाय सर्वान् हृद्भावान् प्रीणीयात् सेवां प्राप्नुयात् ॥७॥

    इस भाष्य को एडिट करें
    Top