ऋग्वेद - मण्डल 10/ सूक्त 82/ मन्त्र 1
ऋषिः - विश्वकर्मा भौवनः
देवता - विश्वकर्मा
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने । य॒देदन्ता॒ अद॑दृहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥
स्वर सहित पद पाठचक्षु॑षः । पि॒ता । मन॑सा । हि । धीरः॑ । घृ॒तम् । ए॒ने॒ । अ॒ज॒न॒त् । नम्न॑माने॒ इति॑ । य॒दा । इत् । अन्ताः॑ । अद॑दृहन्त । पूर्वे॑ । आत् । इत् । द्यावा॑पृथि॒वी इति॑ । अ॒प्र॒थे॒ता॒म् ॥
स्वर रहित मन्त्र
चक्षुषः पिता मनसा हि धीरो घृतमेने अजनन्नन्नमाने । यदेदन्ता अददृहन्त पूर्व आदिद्द्यावापृथिवी अप्रथेताम् ॥
स्वर रहित पद पाठचक्षुषः । पिता । मनसा । हि । धीरः । घृतम् । एने । अजनत् । नम्नमाने इति । यदा । इत् । अन्ताः । अददृहन्त । पूर्वे । आत् । इत् । द्यावापृथिवी इति । अप्रथेताम् ॥ १०.८२.१
ऋग्वेद - मण्डल » 10; सूक्त » 82; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 1
विषयः - अत्र सूक्ते जगद्रचयितुः परमात्मनः स्तुतिर्मोक्षदा भवति समस्तपदार्थानां ज्ञानाय वेदाध्ययनमावश्यकं परमात्मज्ञाने बाधकं वासनेत्येवमादयो विषयाः सन्ति।
पदार्थः -
(मनसा हि धीरः) मननेन ज्ञानेन ध्यानवान् दृढो वा (चक्षुषः-पिता) सूर्यस्य जनक उत्पादयिता “सूर्यश्चक्षुः [तै० ७।५।२१।१] “तद्यत्तच्चक्षुरादित्यः सः” [जै० उ० १।९।१।७] (एने नम्नमाने घृतम्-अजनत्) एते उभे परिणममाने प्रति तेजो जनयति (यदा-इत्-अन्ताः-अदृहन्त) यदा हि बाह्यप्रदेशा दृढा भवन्ति (आत्-इत्) अनन्तरमेव (द्यावापृथिवी अप्रथेताम्) द्युलोकः पृथिवीलोकश्च-उपर्यधःस्तरौ विस्तृतौ भवतः ॥१॥