ऋग्वेद - मण्डल 10/ सूक्त 82/ मन्त्र 7
ऋषिः - विश्वकर्मा भौवनः
देवता - विश्वकर्मा
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव । नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ॥
स्वर सहित पद पाठन । तम् । वि॒दा॒थ॒ । यः । इ॒मा । ज॒जान॑ । अ॒न्यत् । यु॒ष्माक॑म् । अन्त॑रम् । ब॒भू॒व॒ । नी॒हा॒रेण॑ । प्रावृ॑ताः । जल्प्या॑ । च॒ । अ॒सु॒ऽतृपः॑ । उ॒क्थ॒ऽशासः॑ । च॒र॒न्ति॒ ॥
स्वर रहित मन्त्र
न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति ॥
स्वर रहित पद पाठन । तम् । विदाथ । यः । इमा । जजान । अन्यत् । युष्माकम् । अन्तरम् । बभूव । नीहारेण । प्रावृताः । जल्प्या । च । असुऽतृपः । उक्थऽशासः । चरन्ति ॥ १०.८२.७
ऋग्वेद - मण्डल » 10; सूक्त » 82; मन्त्र » 7
अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 7
अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 7
पदार्थः -
(यः-इमा जजान) यः परमात्मा खल्विमानि लोकलोकान्तराणि जनयति (तं न विदाथ) तं यूयं न जानीथ (युष्माकम्-अन्यत्-अन्तरं बभूव) युष्माकमन्तरे भिन्नं छिद्रं भेदकं भवति (नीहारेण प्रावृताः) अज्ञानान्धकारेण प्रकृष्टमावृता आच्छादिताः, तथा (जल्प्या च-असुतृपः-उक्थशासः-चरन्ति) इतस्ततो भाषणेन वाक्संयम-राहित्येन प्राणपोषकाः स्वार्थपरायणाः विषयपरायणाः-कथनमात्रप्रशंसकाः खलु विचरन्ति मनुष्या इति प्रसिद्धिः ॥७॥