Loading...
ऋग्वेद मण्डल - 10 के सूक्त 82 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 82/ मन्त्र 6
    ऋषिः - विश्वकर्मा भौवनः देवता - विश्वकर्मा छन्दः - त्रिष्टुप् स्वरः - धैवतः

    तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑ । अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुः ॥

    स्वर सहित पद पाठ

    तम् । इत् । गर्भ॑म् । प्र॒थ॒मम् । द॒ध्रे॒ । आपः॑ । यत्र॑ । दे॒वाः । स॒म्ऽअग॑च्छन्त । विश्वे॑ । अ॒जस्य॑ । नाभौ॑ । अधि॑ । एक॑म् । अर्पि॑तम् । यस्मि॑न् । विश्वा॑नि । भुव॑नानि । त॒स्थुः ॥


    स्वर रहित मन्त्र

    तमिद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे । अजस्य नाभावध्येकमर्पितं यस्मिन्विश्वानि भुवनानि तस्थुः ॥

    स्वर रहित पद पाठ

    तम् । इत् । गर्भम् । प्रथमम् । दध्रे । आपः । यत्र । देवाः । सम्ऽअगच्छन्त । विश्वे । अजस्य । नाभौ । अधि । एकम् । अर्पितम् । यस्मिन् । विश्वानि । भुवनानि । तस्थुः ॥ १०.८२.६

    ऋग्वेद - मण्डल » 10; सूक्त » 82; मन्त्र » 6
    अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 6

    पदार्थः -
    (तम्-इत्-गर्भम्-प्रथमम्-आपः-दध्रेः) तमेव प्रमुखं ग्रहीतारं परमात्मानं व्याप्ताः परमाणवः स्वोपरि स्वामिरूपं धारयन्ति (यत्र विश्वे देवाः समगच्छन्त) यस्मिन् परमात्मनि सर्वे विद्वांसो मुक्ताः सङ्गच्छन्ते (अजस्य नाभौ-अधि-एकम्-अर्पितम्) तस्य जन्मरहितस्य परमात्मनो मध्ये “मध्यं वै नाभिः” [श० १।१।२।२३] समुदितमेकं जगत् समाश्रितमस्ति (यस्मिन् भुवनानि विश्वानि तस्थुः) यस्मिन् जगति सर्वाणि लोकलोकान्तराणि तिष्ठन्ति ॥६॥

    इस भाष्य को एडिट करें
    Top