Loading...
ऋग्वेद मण्डल - 10 के सूक्त 86 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 86/ मन्त्र 20
    ऋषिः - वृषाकपिरैन्द्र इन्द्राणीन्द्रश्च देवता - वरुणः छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    धन्व॑ च॒ यत्कृ॒न्तत्रं॑ च॒ कति॑ स्वि॒त्ता वि योज॑ना । नेदी॑यसो वृषाक॒पेऽस्त॒मेहि॑ गृ॒हाँ उप॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    धन्व॑ । च॒ । यत् । कृ॒न्तत्र॑म् । च॒ । कति॑ । स्वि॒त् । ता । वि । योज॑ना । नेदी॑यसः । वृ॒षा॒क॒पे॒ । अस्त॑म् । आ । इ॒हि॒ । गृ॒हान् । उप॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥


    स्वर रहित मन्त्र

    धन्व च यत्कृन्तत्रं च कति स्वित्ता वि योजना । नेदीयसो वृषाकपेऽस्तमेहि गृहाँ उप विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    धन्व । च । यत् । कृन्तत्रम् । च । कति । स्वित् । ता । वि । योजना । नेदीयसः । वृषाकपे । अस्तम् । आ । इहि । गृहान् । उप । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥ १०.८६.२०

    ऋग्वेद - मण्डल » 10; सूक्त » 86; मन्त्र » 20
    अष्टक » 8; अध्याय » 4; वर्ग » 4; मन्त्र » 5

    पदार्थः -
    (वृषाकपे) हे वृषाकपे-सूर्य ! (धन्व च यत् कृन्तत्रं च) चापश्च “धन्व चापे” [भरतः-वाचस्पत्ये] यत् खलु छेदनसाधनं शरश्च “कृती छेदने” [तुदा०] ‘कृते नुम् च’ [उणा० ३।१०९] (कति स्वित्-ता योजना) कानिचिद्योजनानि योक्तव्यानि स्थानानि सन्ति (अस्तं वि-आ-इहि) स्वगृहं वसन्तसम्पातं त्यज (नेदीयसः-गृहान् उप०) अतिशयेन समीपस्थान् गृहान् खलूप-आ-इहि-उपागच्छ ॥२०॥

    इस भाष्य को एडिट करें
    Top