ऋग्वेद - मण्डल 10/ सूक्त 93/ मन्त्र 15
ऋषिः - तान्वः पार्थ्यः
देवता - विश्वेदेवा:
छन्दः - पाद्निचृद्बृहती
स्वरः - मध्यमः
अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ । स॒द्यो दि॑दिष्ट॒ तान्व॑: स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ॥
स्वर सहित पद पाठअधि॑ इत् । नु । अत्र॑ । स॒प्त॒तिम् । च॒ । स॒प्त । च॒ । स॒द्यः । दि॒दि॒ष्ट॒ । तान्वः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । पा॒र्थ्यः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । माय॒वः ॥
स्वर रहित मन्त्र
अधीन्न्वत्र सप्ततिं च सप्त च । सद्यो दिदिष्ट तान्व: सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ॥
स्वर रहित पद पाठअधि इत् । नु । अत्र । सप्ततिम् । च । सप्त । च । सद्यः । दिदिष्ट । तान्वः । सद्यः । दिदिष्ट । पार्थ्यः । सद्यः । दिदिष्ट । मायवः ॥ १०.९३.१५
ऋग्वेद - मण्डल » 10; सूक्त » 93; मन्त्र » 15
अष्टक » 8; अध्याय » 4; वर्ग » 28; मन्त्र » 5
अष्टक » 8; अध्याय » 4; वर्ग » 28; मन्त्र » 5
पदार्थः -
(अत्र) अस्मिन् शरीरे (तान्वः) परमेश्वरस्तनुसम्बन्धिनीः “एकवचनं छान्दसम्” (सप्ततिं-च सप्त च) सप्तसप्ततिसंख्याकाः प्रधाननाडीः (सद्यः-इत्-अधि दिदिष्ट) तत्कालमेव-शरीरोत्पत्ति-समकालमेव शरीरेऽधिष्ठापयति-नियोजयति (पार्थ्यः सद्यः-दिदिष्ट) पृथिसम्बन्धिनीः कठोराऽस्थिसंबन्धिनीर्विभक्तीस्तदेवाधिष्ठापयति-नियोजयति (मायवः सद्यः-दिदिष्ट) वाचः सम्बन्धिनीः ‘मायुः वाङ्नाम’ [निघ० १।११] विभक्ती-वर्णात्मकीस्तदैवाधिष्ठापयति-नियोजयति ॥१५॥