Loading...
ऋग्वेद मण्डल - 10 के सूक्त 94 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 94/ मन्त्र 2
    ऋषिः - अर्बुदः काद्रवेयः सर्पः देवता - ग्रावाणः छन्दः - जगती स्वरः - निषादः

    ए॒ते व॑दन्ति श॒तव॑त्स॒हस्र॑वद॒भि क्र॑न्दन्ति॒ हरि॑तेभिरा॒सभि॑: । वि॒ष्ट्वी ग्रावा॑णः सु॒कृत॑: सुकृ॒त्यया॒ होतु॑श्चि॒त्पूर्वे॑ हवि॒रद्य॑माशत ॥

    स्वर सहित पद पाठ

    ए॒ते । व॒द॒न्ति॒ । श॒तऽव॑त् । स॒हस्र॑ऽवत् । अ॒भि । क्र॒न्द॒न्ति॒ । हरि॑तेभिः । आ॒सऽभिः॑ । वि॒ष्ट्वी । ग्रावा॑णः । सु॒ऽकृतः॑ । सु॒ऽकृ॒त्यया॑ । होतुः॑ । चि॒त् । पूर्वे॑ । ह॒विः॒ऽअद्य॑म् । आ॒श॒त॒ ॥


    स्वर रहित मन्त्र

    एते वदन्ति शतवत्सहस्रवदभि क्रन्दन्ति हरितेभिरासभि: । विष्ट्वी ग्रावाणः सुकृत: सुकृत्यया होतुश्चित्पूर्वे हविरद्यमाशत ॥

    स्वर रहित पद पाठ

    एते । वदन्ति । शतऽवत् । सहस्रऽवत् । अभि । क्रन्दन्ति । हरितेभिः । आसऽभिः । विष्ट्वी । ग्रावाणः । सुऽकृतः । सुऽकृत्यया । होतुः । चित् । पूर्वे । हविःऽअद्यम् । आशत ॥ १०.९४.२

    ऋग्वेद - मण्डल » 10; सूक्त » 94; मन्त्र » 2
    अष्टक » 8; अध्याय » 4; वर्ग » 29; मन्त्र » 2

    पदार्थः -
    (एते) विद्वांसः (शतवत्) शतसंख्याशो भूत्वा (वदन्ति) भाषन्ते (सहस्रवत्-अभिक्रन्दन्ति) सहस्रसंख्याशो भूत्वा अभित उच्चारयन्ति (हरितेभिः-आसभिः) मनोहरैः “हरितं कमनीयम्” [ऋ० ३।४४।४] मुखैः (ग्रावाणः) विद्वांसः (सुकृतः) पुण्यकर्माणः (सुकृत्यया) पुण्यक्रियाकलापेन (विष्ट्वी) विष्ट्वा (होतुः-चित्) यजमानस्य गृहे प्रविश्य (पूर्वे) श्रेष्ठाः सन्तः (हविः-आशत) अन्नभोजनं प्राप्नुवन्ति ॥२॥

    इस भाष्य को एडिट करें
    Top