ऋग्वेद - मण्डल 10/ सूक्त 94/ मन्त्र 3
ऋषिः - अर्बुदः काद्रवेयः सर्पः
देवता - ग्रावाणः
छन्दः - विराड्जगती
स्वरः - निषादः
ए॒ते व॑द॒न्त्यवि॑दन्न॒ना मधु॒ न्यू॑ङ्खयन्ते॒ अधि॑ प॒क्व आमि॑षि । वृ॒क्षस्य॒ शाखा॑मरु॒णस्य॒ बप्स॑त॒स्ते सूभ॑र्वा वृष॒भाः प्रेम॑राविषुः ॥
स्वर सहित पद पाठए॒ते । व॒द॒न्ति॒ । अवि॑दन् । अ॒ना । मधु॑ । नि । ऊ॒ङ्ख॒य॒न्ते॒ । अधि॑ । प॒क्वे । आमि॑षि । वृ॒क्षस्य॑ । शाखा॑म् । अ॒रु॒णस्य॑ । बप्स॑तः । ते॒ । सूभ॑र्वाः । वृ॒ष॒भाः । प्र । ई॒म् । अ॒रा॒वि॒षुः॒ ॥
स्वर रहित मन्त्र
एते वदन्त्यविदन्नना मधु न्यूङ्खयन्ते अधि पक्व आमिषि । वृक्षस्य शाखामरुणस्य बप्सतस्ते सूभर्वा वृषभाः प्रेमराविषुः ॥
स्वर रहित पद पाठएते । वदन्ति । अविदन् । अना । मधु । नि । ऊङ्खयन्ते । अधि । पक्वे । आमिषि । वृक्षस्य । शाखाम् । अरुणस्य । बप्सतः । ते । सूभर्वाः । वृषभाः । प्र । ईम् । अराविषुः ॥ १०.९४.३
ऋग्वेद - मण्डल » 10; सूक्त » 94; मन्त्र » 3
अष्टक » 8; अध्याय » 4; वर्ग » 29; मन्त्र » 3
अष्टक » 8; अध्याय » 4; वर्ग » 29; मन्त्र » 3
पदार्थः -
(एते) इमे विद्वांसः (अविदन्) यदा परमात्मानं विदन्ति-जानन्ति तदैव (अना वदन्ति) अन्यते, प्राण्यते प्राणो गृह्यते येन तत्-अन् मुखं तेन मुखेन वदन्ति-उपदिशन्ति (वृक्षस्य पक्वे-आमिषि-अधि) वृक्षस्य पक्वे सम्भजनीये फले “सम्भक्तौ” [भ्वादि०] ततः “अमेर्दीर्घश्च-टिषच् प्रत्ययः” [उणादि० १।४६] तत्फलस्यान्तरे (मधु न्यूङ्खयन्ते) मधुरं रसमन्नमिव सेवन्तेऽन्नं कुर्वन्ति वा “अन्नं वै न्यूङ्खः” [ऐत० ५।३] (सुभर्वाः-वृषभाः) शोभनभोजनाः “सुभर्वं भर्वतिरत्तिकर्मा” [निरु० ९।२३] (ज्ञानवर्षकाः) (अरुणस्य शाखां वप्सतः) आरोचमानस्य पुष्पितफलितस्य वृक्षस्य शाखायां “सप्तम्यर्थे द्वितीया व्यत्ययेन छान्दसी” ज्ञानफलं भक्षयन्तः (ईं-प्र-अराविषुः) तं परमात्मानं तज्ज्ञानं शब्दयन्ति-उपदिशन्ति ॥३॥