ऋग्वेद - मण्डल 10/ सूक्त 94/ मन्त्र 4
ऋषिः - अर्बुदः काद्रवेयः सर्पः
देवता - ग्रावाणः
छन्दः - विराड्जगती
स्वरः - निषादः
बृ॒हद्व॑दन्ति मदि॒रेण॑ म॒न्दिनेन्द्रं॒ क्रोश॑न्तोऽविदन्न॒ना मधु॑ । सं॒रभ्या॒ धीरा॒: स्वसृ॑भिरनर्तिषुराघो॒षय॑न्तः पृथि॒वीमु॑प॒ब्दिभि॑: ॥
स्वर सहित पद पाठबृ॒हत् । व॒द॒न्ति॒ । म॒दि॒रेण॑ । म॒न्दिना॑ । इन्द्र॑म् । क्रोश॑न्तः । अ॒वि॒द॒न् । अ॒ना । मधु॑ । स॒म्ऽरभ्य॑ । धीराः॑ । स्वसृ॑ऽभिः । अ॒न॒र्ति॒षुः॒ । आ॒ऽघो॒षय॑न्तः । पृ॒थि॒वीम् । उ॒प॒ब्दिऽभिः॑ ॥
स्वर रहित मन्त्र
बृहद्वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तोऽविदन्नना मधु । संरभ्या धीरा: स्वसृभिरनर्तिषुराघोषयन्तः पृथिवीमुपब्दिभि: ॥
स्वर रहित पद पाठबृहत् । वदन्ति । मदिरेण । मन्दिना । इन्द्रम् । क्रोशन्तः । अविदन् । अना । मधु । सम्ऽरभ्य । धीराः । स्वसृऽभिः । अनर्तिषुः । आऽघोषयन्तः । पृथिवीम् । उपब्दिऽभिः ॥ १०.९४.४
ऋग्वेद - मण्डल » 10; सूक्त » 94; मन्त्र » 4
अष्टक » 8; अध्याय » 4; वर्ग » 29; मन्त्र » 4
अष्टक » 8; अध्याय » 4; वर्ग » 29; मन्त्र » 4
पदार्थः -
(मधु-अविदन्) विद्वांसः परमात्मन आनन्दमधु यदा लभन्ते तदा (अना-इन्द्रं क्रोशन्तः) मुखेन परमात्मानं स्तुवन्तः शब्दयन्तः “क्रोशतेः शब्दकर्मणः” [निरु० २।२५] (मन्दिना-मदिरेण बृहद् वदन्ति) स्तुत्येन प्रशंसनीयेन “मन्दी मन्दतेः स्तुतिकर्मणः” [निरु० ४।२४] हर्षेण बहु वदन्ति (धीराः-संरभ्य) धीमन्तः ध्याने संरब्धाः संज्ञानाः सन्तः (उपब्दिभिः पृथिवीम्-आघोषयन्तः) वाग्भिः “उपब्दिः-वाङ्नाम” [निघ० १।११] पृथिवीं प्रथितां जनसभां समन्तात् पूरयन्तः (स्वसृभिः-अनर्तिषुः) अङ्गुलीभिः-अङ्गुलीः प्रसार्य “स्वसारः-अङ्गुलीनाम” [निघ० २।५] नृत्यन्ति ॥४॥