Loading...
ऋग्वेद मण्डल - 10 के सूक्त 98 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 98/ मन्त्र 11
    ऋषिः - देवापिरार्ष्टिषेणः देवता - देवाः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सं प्र य॑च्छ॒ वृष्ण॒ इन्द्रा॑य भा॒गम् । वि॒द्वान्प॒थ ऋ॑तु॒शो दे॑व॒याना॒नप्यौ॑ला॒नं दि॒वि दे॒वेषु॑ धेहि ॥

    स्वर सहित पद पाठ

    एतानि॑ । अ॒ग्ने॒ । न॒व॒तिम् । स॒हस्रा॑ । सम् । प्र । य॒च्छ॒ । वृष्णे॑ । इन्द्रा॑य । भा॒गम् । वि॒द्वान् । प॒थः । ऋ॒तु॒ऽशः । दे॒व॒ऽयाना॑न् । अपि॑ । औ॒ला॒नम् । दि॒वि । दे॒वेषु॑ । धे॒हि॒ ॥


    स्वर रहित मन्त्र

    एतान्यग्ने नवतिं सहस्रा सं प्र यच्छ वृष्ण इन्द्राय भागम् । विद्वान्पथ ऋतुशो देवयानानप्यौलानं दिवि देवेषु धेहि ॥

    स्वर रहित पद पाठ

    एतानि । अग्ने । नवतिम् । सहस्रा । सम् । प्र । यच्छ । वृष्णे । इन्द्राय । भागम् । विद्वान् । पथः । ऋतुऽशः । देवऽयानान् । अपि । औलानम् । दिवि । देवेषु । धेहि ॥ १०.९८.११

    ऋग्वेद - मण्डल » 10; सूक्त » 98; मन्त्र » 11
    अष्टक » 8; अध्याय » 5; वर्ग » 13; मन्त्र » 5

    पदार्थः -
    (अग्ने) हे अग्रणायक परमात्मन् ! (एतानि-नवनवतिं-सहस्रा) इमानि पूर्वोक्तानि नवनवतिं सहस्राणि मोक्षसम्बन्धीनि वर्षाणि (वृष्णे-इन्द्राय) सुखवृष्टेः पात्राय-आत्मने-मुक्तात्मने (भागं सं प्र यच्छ) भागरूपं देहि (विद्वान्) जानन् सन् (ऋतुशः) यथासमयं (देवयानान् पथः) देवाः-मुमुक्षवः यान्ति यैस्तान् मार्गान् प्रति (अपि) अथापि (दिवि देवेषु) मोक्षधामनि मुक्तेषु (औलानं धेहि) संवरयितारमुपासकात्मानं “वल संवरणे” [भ्वादि०] ततः-आनक् प्रत्ययो बाहुलकादौणादिकः सम्प्रसारणञ्च, उलानः स्वार्थे अण् छान्दसः औलानस्तमौलानं (धेहि) धारय-प्रापय ॥११॥

    इस भाष्य को एडिट करें
    Top