Loading...
ऋग्वेद मण्डल - 10 के सूक्त 98 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 98/ मन्त्र 12
    ऋषिः - देवापिरार्ष्टिषेणः देवता - देवाः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहापामी॑वा॒मप॒ रक्षां॑सि सेध । अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो॒ऽपां भू॒मान॒मुप॑ नः सृजे॒ह ॥

    स्वर सहित पद पाठ

    अग्ने॑ । बाध॑स्व । वि । मृधः॑ । वि । दुः॒ऽगहा॑ । अप॑ । अमी॑वाम् । अप॑ । रक्षां॑सि । से॒ध॒ । अ॒स्मात् । स॒मु॒द्रात् । बृ॒ह॒तः । दि॒वः । नः॒ । अ॒पाम् । भू॒मान॑म् । उप॑ । नः॒ । सृ॒ज॒ । इ॒ह ॥


    स्वर रहित मन्त्र

    अग्ने बाधस्व वि मृधो वि दुर्गहापामीवामप रक्षांसि सेध । अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नः सृजेह ॥

    स्वर रहित पद पाठ

    अग्ने । बाधस्व । वि । मृधः । वि । दुःऽगहा । अप । अमीवाम् । अप । रक्षांसि । सेध । अस्मात् । समुद्रात् । बृहतः । दिवः । नः । अपाम् । भूमानम् । उप । नः । सृज । इह ॥ १०.९८.१२

    ऋग्वेद - मण्डल » 10; सूक्त » 98; मन्त्र » 12
    अष्टक » 8; अध्याय » 5; वर्ग » 13; मन्त्र » 6

    पदार्थः -
    (अग्ने) परमात्मन् ! (मृधः-वि बाधस्व) हिंसकान् विशेषेण पीडय (दुर्गहा वि) दुःखेन गाह्यानि कष्टानि विशेषेण नाशय (अमीवाम्-अप) रोगान् दूरीकुरु (रक्षांसि-अप सेध) राक्षसान् मध्ये बाधकान् दूरी कुरु (अस्मात्-बृहतः-दिवः समुद्रात्) एतस्मान्महतो मोक्षरूपात् समुद्रात् (नः) अस्मभ्यम् (अपां भूमानं नः-इह सृज) आनन्दरसानां बाहुल्यमस्मान्प्रति प्रयच्छ ॥१२॥

    इस भाष्य को एडिट करें
    Top