अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 3
तमी॑मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः। यो अस्कृ॑धोयुर॒जरः॒ स्वर्वा॒न्तमा भ॑र हरिवो माद॒यध्यै॑ ॥
स्वर सहित पद पाठतम् । ई॒म॒हे॒ । इन्द्र॑म् । अ॒स्य॒ । रा॒य: । पु॒रु॒ऽवीर॑स्य । नृ॒वत॑: । पु॒रु॒ऽक्षो: ॥ य: । अस्कृ॑धोयु: । अ॒जर॑: । स्व॑:ऽवान् । तम् । आ । भ॒र॒ । ह॒रि॒ऽव॒: । मा॒द॒यध्यै॑ ॥३६.३॥
स्वर रहित मन्त्र
तमीमह इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः। यो अस्कृधोयुरजरः स्वर्वान्तमा भर हरिवो मादयध्यै ॥
स्वर रहित पद पाठतम् । ईमहे । इन्द्रम् । अस्य । राय: । पुरुऽवीरस्य । नृवत: । पुरुऽक्षो: ॥ य: । अस्कृधोयु: । अजर: । स्व:ऽवान् । तम् । आ । भर । हरिऽव: । मादयध्यै ॥३६.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 3
विषय - मनुष्य के कर्तव्य का उपदेश।
पदार्थ -
(तम्) उस (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] से (अस्य) इस (पुरुवीरस्य) बहुत वीरों के प्राप्त करानेवाले, (नृवतः) श्रेष्ठ मनुष्योंवाले, (पुरुक्षोः) बहुत ऐश्वर्य वा अन्नवाले (रायः) धन की (ईमहे) हम माँग करते हैं। और (यः) जो [परमात्मा] (अस्कृधोयुः) अपनी छोटाई न चाहनेवाला, (अजरः) निर्बल न होनेवाला, (स्वर्वान्) बहुत सुखवाला है, (हरिवः) हे उत्तम मनुष्योंवाले ! [विद्वान् पुरुष] तू (मादयध्यै) आनन्दित करने के लिये (तम्) उस [परमात्मा] को (आ) सब प्रकार (भर) धारण कर ॥३॥
भावार्थ - सब मनुष्य विज्ञान और ऐश्वर्य आदि बढ़ाने के लिये परमात्मा से प्रार्थना करके सदा प्रयत्न करें ॥३॥
टिप्पणी -
३−(तम्) (ईमहे) याचनां कुर्मः (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (अस्य) (रायः) धनस्य (पुरुवीरस्य) बहुवीरप्रापकस्य (नृवतः) श्रेष्ठनृभिर्युक्तस्य (पुरुक्षोः) आङ्परयोः खनिशॄभ्यां डिच्च। उ०१।३३। टुक्षु शब्दे, क्षि निवासगत्योः, ऐश्वर्ये च-कु प्रत्ययः, स च डित्। क्षु अन्ननाम-निघ०२।७। बह्वैश्वर्ययुक्तस्य। बह्वन्नोपेतस्य (यः) परमात्मा (अस्कृधोयुः) पॄभिदिव्यधिगृधिधृषिहृषिभ्यः। उ०१।२३। कृती छेदने-कु, तकारस्य धः। कृधु ह्रस्वनाम-निघ०३।२। सुप आत्मनः क्यच्। पा०३।१।८। अकृधु-क्यच्। क्याच्छन्दसि। पा०३।२।१७०। उप्रत्ययः, यद्वा, मृगय्वादयश्च। उ०१।३७। अकृधु+या प्रापणे-कु। सकार उपजनः, धुशब्दस्य धोभावः। अस्कृधोयुरकृध्वायुः कृध्विति ह्रस्वनाम निकृत्तं भवति-निरु०३।३। य आत्मनः कृधु ह्रस्वत्वं नेच्छतीति-दयानन्दभाष्ये-ऋक्०६।६७।११। (अजरः) जरारहितः। अनिर्बलः। दृढः (स्वर्वान्) सुखवान् (तम्) परमात्मानम् (आ) समन्तात् (भर) धर (हरिवः) हरयो मनुष्याः-निघ०२।३। हे प्रशस्तमनुष्ययुक्त (मादयध्यै) तुमर्थे सेसेनसे०। पा०३।४।९। मादयतेः-अध्यै प्रत्ययः। मादयितुमानन्दयितुम् ॥