अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 5
तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः। तु॑विग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमिषे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ॥
स्वर सहित पद पाठतम् । पृ॒च्छन्ती॑ । वज्र॑ऽहस्तम् । र॒थे॒ऽस्थम् । इन्द्र॑म् । वेपी॑ । वक्व॑री । यस्य॑ । नु । गी: ॥ तु॒वि॒ऽग्रा॒भम् । तु॒वि॒ऽकू॒र्मिम् । र॒भ॒:ऽदाम् । गा॒तुम् । इ॒षे॒ । नक्ष॑ते । तुम्र॑म् । अच्छ॑ ॥३६.५॥
स्वर रहित मन्त्र
तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः। तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥
स्वर रहित पद पाठतम् । पृच्छन्ती । वज्रऽहस्तम् । रथेऽस्थम् । इन्द्रम् । वेपी । वक्वरी । यस्य । नु । गी: ॥ तुविऽग्राभम् । तुविऽकूर्मिम् । रभ:ऽदाम् । गातुम् । इषे । नक्षते । तुम्रम् । अच्छ ॥३६.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 5
विषय - मनुष्य के कर्तव्य का उपदेश।
पदार्थ -
(यस्य) जिस [पुरुष] की (गीः) वाणी (नु) निश्चय करके (वेपी) हिलनेवाली [बे-रोक चलनेवाली] और (वक्वरी) बोलने की शक्तिवाली है, (तम्) उस (वज्रहस्तम्) वज्र [हथियार] हाथ में रखनेवाले (रथेष्ठाम्) रथ में बैठे हुए, (तुविग्राभम्) बहुतों को सहारा देनेवाले, (तुविकूर्मिम्) बहुत से काम करनेवाले, (रभोदाम्) वेगयुक्त बल देनेवाले, (गातुम्) वेदों के गानेवाले, (तुम्रम्) विघ्नों के मिटानेवाले (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले पुरुष] को (इषे) अन्न आदि के लिये (पृच्छन्ती) पूँछती हुई [स्त्री] (अच्छ) अच्छे प्रकार (नक्षते) प्राप्त होती है ॥॥
भावार्थ - ब्रह्मचारिणी कन्या भली-भाँति निश्चय करके शुभ गुणवाले ऐश्वर्यवान् पुरुष को विवाह के लिये स्वीकार करे ॥॥
टिप्पणी -
−(तम्) पुरुषम् (पृच्छन्ती) जिज्ञासमाना (वज्रहस्तम्) आयुधपाणिम् (रथेष्ठाम्) रथारूढम् (इन्द्रम्) परमैश्वर्यवन्तं पुरुषम् (वेपी) वेपृ कम्पने पचाद्यच्। गौरादित्वाद् ङीप्। कम्पनशीला। चेष्टायमाना (वक्वरी) वचेर्वनिप्। वनो र च। पा०४।१।७। ङीब्रेफौ। यद्वा, कॄगॄशॄदॄभ्यो वः। उ०१।१। वचेर्वप्रत्ययः, रो मत्वर्थे, ङीप्। न्यङ्क्वादीनां च। पा०७।३।३। इति बाहुलकात् कुत्त्वम्। वचनशक्तिमती (यस्य) पुरुषस्य (नु) निश्चयेन (गीः) वाक् (तुविग्राभम्) ग्रह उपादाने-अण् हस्य भः। बहूनां ग्रहीतारं सहायकम् (तुविकूर्मिम्) अर्त्तेरुच्च। उ०४।४४। डुकृञ् करणे-मिप्रत्ययः ऊच्च। बहुकर्माणम् (रभोदाम्) रभसो वेगयुक्तबलस्य दातारम् (गातुम्) कमिमनिजनिगाभायाहिभ्यश्च। उ०१।७३। वेदानां गायनं गायकम् (इषे) अन्नाद्याय दयानन्दभाष्ये-ऋक्०६।२२।। (नक्षते) प्राप्नोति। नक्षतिर्गतिकर्मा-निघ०२।१४ (तुम्रम्) तुमिराहननार्थः-सायणभाष्ये-ऋक्०३।०।१। सुसूधाञ्गृधिभ्यः क्रन्। उ०२।२४। इति क्रन् प्रत्ययः। विघ्नानां नाशकम् (अच्छ) सुष्ठु ॥