अथर्ववेद - काण्ड 20/ सूक्त 67/ मन्त्र 3
अ॒ग्निं होता॑रं मन्ये॒ दास्व॑न्तं॒ वसुं॑ सू॒नुं सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसम्। य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा। घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒ जुह्वा॑नस्य स॒र्पिषः॑ ॥
स्वर सहित पद पाठअ॒ग्निम् । होता॑रम् । म॒न्ये॒ । दास्व॑न्तम् । वसु॑म् । सू॒नुम् । सह॑स: । जा॒तऽवे॑दसम् । विप्र॑म् । न । जा॒तऽवे॑दसम् ॥ य: । ऊ॒र्ध्वया॑ । सु॒ऽअ॒ध्व॒र: । दे॒व: । दे॒वाच्या॑ । कृ॒पा ॥ घृतस्य॑ । विऽभ्रा॑ष्टिम् । अनु॑ । व॒ष्टि॒ । शो॒चिषा॑ । आ॒जुह्वा॑नस्य । स॒र्पिष: ॥६७.३॥
स्वर रहित मन्त्र
अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम्। य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा। घृतस्य विभ्राष्टिमनु वष्टि शोचिषा जुह्वानस्य सर्पिषः ॥
स्वर रहित पद पाठअग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसुम् । सूनुम् । सहस: । जातऽवेदसम् । विप्रम् । न । जातऽवेदसम् ॥ य: । ऊर्ध्वया । सुऽअध्वर: । देव: । देवाच्या । कृपा ॥ घृतस्य । विऽभ्राष्टिम् । अनु । वष्टि । शोचिषा । आजुह्वानस्य । सर्पिष: ॥६७.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 67; मन्त्र » 3
विषय - मनुष्य के कर्तव्य का उपदेश।
पदार्थ -
(होतारम्) ग्रहण करनेवाले, (दास्वन्तम्) दान करनेवाले, (वसुम्) श्रेष्ठ गुणवाले, (सहसः) बलवान् पुरुष के (सूनुम्) पुत्र, (जातवेदसम्) प्रसिद्ध विद्यावाले (विप्रम् न) बुद्धिमान् के समान (जातवेदसम्) प्रसिद्ध विद्यावाले विद्वान् को (अग्निम्) उस अग्नि के समान (मन्ये) मैं मानता हूँ। (यः) जो (देवः) प्रकाशमान, (स्वध्वरः) अच्छे प्रकार हिंसारहित यज्ञ का साधनेवाला [अग्नि] (ऊर्ध्वया) ऊँची (देवाच्या) गतिशील [वायु आदि देवताओं] को पहुँचनेवाली (कृपा) शक्ति के साथ (आजुह्वानस्य) होमे हुए और (सर्पिषः) पिघले हुए (घृतस्य) घी की (शोचिषा) शुद्धि से (विभ्राष्टिम्) विविध प्रकाश को (अनु) लगातार (वष्टि) चाहता है ॥३॥
भावार्थ - विद्वान् पुरुष विद्या प्राप्त करके संसार में ऐसा उपकारी होवे, जैसे अग्नि घृत आदि से प्रज्वलित होकर वायु जल आदि को शुद्ध करके और सूर्य पार्थिव रस खींचकर वृष्टि द्वारा उपयोगी होता है ॥३॥
टिप्पणी -
यह मन्त्र ऋग्वेद में है-१।१२७।१; यजुर्वेद-१।४७; कुछ भेद से सामवेद-पू० ।८।९ और उ० ९।१।१८ ॥ ३−(अग्निम्) अग्निवद् वर्तमानम् (होतारम्) ग्रहीतारम् (मन्ये) जानामि (दास्वन्तम्) दातारम् (वसुम्) श्रेष्ठगुणवन्तम् (सूनुम्) पुत्रम् (सहसः) मतुपो लोपः। सहस्वतः। बलवतः (जातवेदसम्) प्रसिद्धविद्यम् (विप्रम्) मेधाविनम् (न) इव (जातवेदसम्) प्रसिद्धविद्यम् (यः) अग्निः (ऊर्ध्वया) उन्नतया (स्वध्वरः) हिंसारहितस्य यज्ञस्य सुष्ठु साधकः (देवः) प्रकाशमानः (देवाच्या) देवान् गतिशीलान् वाय्वादीन् अञ्चति प्राप्नोतीति देवाची तया (कृपा) कृपू सामर्थ्ये-क्विप्। शक्त्या। (घृतस्य) आज्यस्य (विभ्राष्टिम्) भ्राज-क्तिन्। विविधां दीप्तिम् (अनु) निरन्तरम् (वष्टि) कामयते (शोचिषा) ईशुचिर् शौचे क्लेदे च-इसि। प्रभया (आजुह्वानस्य) समन्ताद्धूयमानस्य (सर्पिषः) सरणशीलस्य। द्रवीभूतस्य ॥