Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 80/ मन्त्र 2
त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राज॑न्दे॒वेषु॑ हूमहे। विश्वा॒ सु नो॑ विथु॒रा पि॑ब्द॒ना व॑सो॒ऽमित्रा॑न्सु॒षहा॑न्कृधि ॥
स्वर सहित पद पाठत्वाम् । उ॒ग्रम् । अव॑से । च॒र्ष॒णि॒ऽसह॑म् । राज॑न् । दे॒वेषु॑ । हू॒म॒हे॒ ॥ विश्वा॑ । सु । न॒: । वि॒थु॒रा । पि॒ब्द॒ना । व॒सो॒ इति॑ । अ॒मित्रा॑न् । सु॒ऽसहा॑न् । कृ॒धि॒ ॥८०.२॥
स्वर रहित मन्त्र
त्वामुग्रमवसे चर्षणीसहं राजन्देवेषु हूमहे। विश्वा सु नो विथुरा पिब्दना वसोऽमित्रान्सुषहान्कृधि ॥
स्वर रहित पद पाठत्वाम् । उग्रम् । अवसे । चर्षणिऽसहम् । राजन् । देवेषु । हूमहे ॥ विश्वा । सु । न: । विथुरा । पिब्दना । वसो इति । अमित्रान् । सुऽसहान् । कृधि ॥८०.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 80; मन्त्र » 2
विषय - राजा के कर्तव्य का उपदेश।
पदार्थ -
(राजन्) हे राजन् ! (देवेषु) विद्वानों में (अवसे) रक्षा के लिये (उग्रम्) तेजस्वी, (चर्षणीसहम्) मनुष्यों को वश में रखनेवाले (त्वाम्) तुझको (हूमहे) हम पुकारते हैं। (वसो) हे बसानेवाले ! (नः) हमारे (विश्वा) सब (विथुरा) क्लेशों को (पिब्दना) खण्डनयोग्य और (अमित्रान्) वैरियों को (सुसहान्) सहज में हारने योग्य (सु) सर्वथा (कृधि) कर ॥२॥
भावार्थ - राजा सदा ऐसा उपाय करे कि जिससे प्रजा के सब बाहिरी और भीतरी क्लेश दूर होवें ॥२॥
टिप्पणी -
२−(त्वाम्) (उग्रम्) तेजस्विनम् (अवसे) रक्षणाय (चर्षणीसहम्) मनुष्याणां सोढारम्। अभिभवितारं वशीकर्तारम् (राजन्) ऐश्वर्यवन् (देवेषु) विद्वत्सु (हूमहे) आह्वयामः (विश्वा) सर्वाणि (सु) सर्वथा (नः) अस्माकम् (विथुरा) अ० ७।९।१। व्यथ ताडने-उरच्, कित्। व्यथनानि। क्लेशान् (पिब्दना) कॄपॄवृजिमन्दिनिधाञः क्युः। उ० २।८१। अपि+दाप् लवने दो अवखण्डने वा क्यु। आतो लोप इटि च। पा० ६।४।६४। आकारलोपः, बकारोपजनः। अपिदनानि। अवखण्डनीयानि (वसो) हे वासयितः (अमित्रान्) शत्रून् (सुसहान्) सुखेन अभिभवनीयान् (कृधि) कुरु ॥