अथर्ववेद - काण्ड 4/ सूक्त 22/ मन्त्र 6
सूक्त - वसिष्ठः, अथर्वा वा
देवता - इन्द्रः, क्षत्रियो राजा
छन्दः - त्रिष्टुप्
सूक्तम् - अमित्रक्षयण सूक्त
उत्त॑र॒स्त्वमध॑रे ते स॒पत्ना॒ ये के च॑ राज॒न्प्रति॑शत्रवस्ते। ए॑कवृ॒ष इन्द्र॑सखा जिगी॒वां छ॑त्रूय॒तामा भ॑रा॒ भोज॑नानि ॥
स्वर सहित पद पाठउत्त॑र: । त्वम् । अध॑रे । ते॒ । स॒ऽपत्ना॑: । ये । के । च॒ । रा॒ज॒न् । प्रति॑ऽशत्रव: । ते॒ । ए॒क॒ऽवृ॒ष: । इन्द्र॑ऽसखा । जि॒गी॒वान् । श॒त्रु॒ऽय॒ताम् । आ । भ॒र॒ । भोज॑नानि ॥२२.६॥
स्वर रहित मन्त्र
उत्तरस्त्वमधरे ते सपत्ना ये के च राजन्प्रतिशत्रवस्ते। एकवृष इन्द्रसखा जिगीवां छत्रूयतामा भरा भोजनानि ॥
स्वर रहित पद पाठउत्तर: । त्वम् । अधरे । ते । सऽपत्ना: । ये । के । च । राजन् । प्रतिऽशत्रव: । ते । एकऽवृष: । इन्द्रऽसखा । जिगीवान् । शत्रुऽयताम् । आ । भर । भोजनानि ॥२२.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 22; मन्त्र » 6
विषय - संग्राम में जय के लिये उपदेश।
पदार्थ -
[राजन् !] हे राजन् ! (त्वम्) तू (उत्तरः) अधिक ऊँचा हो, (च) और (ये के) जो कोई (ते) तेरे (प्रतिशत्रवः) प्रतिकूलवर्ती शत्रु और (ते) तेरे (सपत्नाः) साथ झगड़नेवाले हैं, [वे] (अधरे) नीचे होवें। (इन्द्रसखा) परमेश्वर का मित्र, (जिगीवान्) विजयी और (एकवृषः) अद्वितीय प्रधान तू (शत्रूयताम्) शत्रुओं जैसे आचरणवाले मनुष्यों के (भोजनानि) भोगों के साधन, धन-धान्यों को (आभर) लाकर भरदे ॥६॥
भावार्थ - राजा प्रतिकूलवर्ती सब शत्रुओं को परमेश्वर के सहाय से जीतकर सर्वथा निर्बल करे और प्रजा को सुख देवे ॥६॥
टिप्पणी -
६−(उत्तरः) ऊर्ध्वतरः (त्वम्) राजन् (अधरे) नीचाः (ते) त्वदीयाः (सपत्नाः) अ० १।९।२। सहपतित्ववन्तः। शत्रवः (ये के च राजन्) (प्रतिशत्रवः) प्रतिकूलवर्तिनो वैरिणः (एकवृषः) म० १। अद्वितीयशासकः (इन्द्रसखा) इन्द्रेण परमेश्वरेण सखित्वयुक्तः (जिगीवान्) जि जये+क्वसु। सन्लिटोर्जेः। पा० ७।३।५७। इत्यभ्यासादुत्तरस्य कुत्वम्। छान्दसो दीर्घः। जयशीलः (शत्रूयताम्) अ० ३।१।३। शत्रु-क्यच्,-शतृ। शत्रुवदाचरताम् (आ भरा) छान्दसो दीर्घः। आनीय धर (भोजनानि) ण्युट् च। पा० ३।३।११५। इति भुज पालनाभ्यवहारयोः-ल्युट्। भोगसाधनानि धान्यानि धनानि च ॥