अथर्ववेद - काण्ड 4/ सूक्त 22/ मन्त्र 3
सूक्त - वसिष्ठः, अथर्वा वा
देवता - इन्द्रः, क्षत्रियो राजा
छन्दः - त्रिष्टुप्
सूक्तम् - अमित्रक्षयण सूक्त
अ॒यम॑स्तु॒ धन॑पति॒र्धना॑नाम॒यं वि॒शां वि॒श्पति॑रस्तु॒ राजा॑। अ॒स्मिन्नि॑न्द्र॒ महि॒ वर्चां॑सि धेह्यव॒र्चसं॑ कृणुहि॒ शत्रु॑मस्य ॥
स्वर सहित पद पाठअ॒यम् । अ॒स्तु॒ । धन॑ऽपति: । धना॑नाम् । अ॒यम् । वि॒शाम् । वि॒श्पति॑: । अ॒स्तु॒ । राजा॑ । अ॒स्मिन् । इ॒न्द्र॒ । महि॑ । वर्चां॑सि । धे॒हि॒ । अ॒व॒र्चस॑म् । कृ॒णु॒हि॒ । शत्रु॑म् । अ॒स्य॒ ॥२२.३॥
स्वर रहित मन्त्र
अयमस्तु धनपतिर्धनानामयं विशां विश्पतिरस्तु राजा। अस्मिन्निन्द्र महि वर्चांसि धेह्यवर्चसं कृणुहि शत्रुमस्य ॥
स्वर रहित पद पाठअयम् । अस्तु । धनऽपति: । धनानाम् । अयम् । विशाम् । विश्पति: । अस्तु । राजा । अस्मिन् । इन्द्र । महि । वर्चांसि । धेहि । अवर्चसम् । कृणुहि । शत्रुम् । अस्य ॥२२.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 22; मन्त्र » 3
विषय - संग्राम में जय के लिये उपदेश।
पदार्थ -
(अयम्) यह (धनानाम्) बहुत प्रकार के धनों का (धनपतिः) धनपति (अस्तु) होवे। (अयम्) यह (राजा) राजा (विशाम्) बहुत प्रजाओं का (विश्पतिः) प्रजापति (अस्तु) होवे। (इन्द्र) हे परमेश्वर ! (अस्मिन्) इस राज्य में (महि=महीनि) बड़े-बड़े (वर्चांसि) तेजों को (धेहि) धारण कर, (अस्य) इसके (शत्रुम्) वैरी को (अवर्चसम्) निस्तेज (कृणुहि) करदे ॥३॥
भावार्थ - राजा परमेश्वर के अनुग्रह से पुरुषार्थपूर्वक बहुत धन एकत्र करके प्रजा की रक्षा करे और महाप्रतापी होकर शत्रुओं को वश में रक्खे ॥३॥
टिप्पणी -
३−(अयम्) (अस्तु) (धनपतिः) धनानां निधीनां पालकः (धनानाम्) बहुविधधनानाम् (विशाम्) बहुप्रजानाम् (विश्पतिः) प्रजापालकः (राजा) (अस्मिन्) राजनि (इन्द्र) हे परमात्मन् (महि) सर्वधातुभ्य इन्। उ० ४।११८। इति मह पूजायाम्-इन्। सुपां सुलुक्०। पा० ७।१।३९। इति शसः सुः। महीनि महान्ति (वर्चांसि) तेजांसि (धेहि) धारय (अवर्चसम्) अतेजस्कम् (कृणुहि) कुरु (शत्रुम्) (अस्य) ॥