अथर्ववेद - काण्ड 4/ सूक्त 27/ मन्त्र 6
यदीदि॒दं म॑रुतो॒ मारु॑तेन॒ यदि॑ देवा॒ दैव्ये॑ने॒दृगार॑। यू॒यमी॑शिध्वे वसव॒स्तस्य॒ निष्कृ॑ते॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठयदि॑ । इत् । इ॒दम् । म॒रु॒त॒: । मारु॑तेन । यदि॑ । दे॒वा॒: । दैव्ये॑न । ई॒दृक् । आर॑ । यू॒यम् । ई॒शि॒ध्वे॒ । व॒स॒व॒: । तस्य॑ । निऽकृ॑ते : । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥२७.६॥
स्वर रहित मन्त्र
यदीदिदं मरुतो मारुतेन यदि देवा दैव्येनेदृगार। यूयमीशिध्वे वसवस्तस्य निष्कृतेस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठयदि । इत् । इदम् । मरुत: । मारुतेन । यदि । देवा: । दैव्येन । ईदृक् । आर । यूयम् । ईशिध्वे । वसव: । तस्य । निऽकृते : । ते । न: । मुञ्चन्तु । अंहस: ॥२७.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 27; मन्त्र » 6
विषय - पवन के गुणों का उपदेश।
पदार्थ -
(देवाः) हे विजयशील (मरुतः) दोषनाशक वायुगण ! (यदि) यत्नशील (इदम्) चलता हुआ जगत् (इत्) निश्चय करके [तुम्हारे] (मारुतेन) दोषनाशक धर्म से और (दैव्येन) दिव्यपन से (ईदृक्) ऐसा (यदि) यत्नशील (आर) प्राप्त हुआ है। (वसवः) हे निवास करानेवाले ! (यूयम्) तुम (तस्य) उस जगत् के (निष्कृतेः) उद्धार के (ईशिध्वे) समर्थ होते हो। (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥६॥
भावार्थ - यह सब जगत् वायु के कारण चेष्टा करता हुआ उद्योगी रहता है, उस वायु के गुणों को जान कर सब मनुष्य प्रसन्न रहें ॥६॥
टिप्पणी -
६−(यदि) सर्वधातुभ्य इन्। उ० ४।११८। इति यती प्रयत्ने-इन् तस्य दः। यत्नशीलम् (इत्) अवधारणे (इदम्) इण् गतौ दमुक्। एति गच्छतीति इदं जगत् (मरुतः) हे दीपनाशका वायवः (मारुतेन) तस्येदम्। पा० ४।३।१२०। इति मरुत्-भावेऽण्। मरुत्वेन मरुतो दोषनाशधर्मेण (यदि) यत्नशीलम् (देवाः) हे विजिगीषवः (दैव्येन) दिवि भवं दिव्यम्। ततो भावे अण्। दिव्यगुणेन (ईदृक्) त्यदादिषु दृशोऽनालोचने कञ् च। पा० ३।२।६०। इति दृशेः क्विन्। इंदकिमोरीश्की। पा० ६।३।९०। इति इदम ईशादेशः। एवंरूपं जगद् यथा दृश्यते (आर) ऋ गतौ लिट्। प्राप्तं बभूव (यूयम्) (ईशिध्वे) ईश्वराः समर्था भवथ (वसवः) हे वासयितारः। प्रशस्ताः (तस्य) दृश्यमानस्य जगतः (निष्कृतेः) निस्तारस्य उद्धारस्य। अन्यत् पूर्ववत् ॥