अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 10
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - स्वराट्पङ्क्तिः
सूक्तम् - ब्रह्मविद्या सूक्त
यो॒स्मांश्चक्षु॑षा॒ मन॑सा॒ चित्त्याकू॑त्या च॒ यो अ॑घा॒युर॑भि॒दासा॑त्। त्वं तान॑ग्ने मे॒न्यामे॒नीन्कृ॑णु॒ स्वाहा॑ ॥
स्वर सहित पद पाठय: । अ॒स्मान् । चक्षु॑षा । मन॑सा । चित्त्या॑ । आऽकू॑त्या । च॒ । य: । अ॒घ॒ऽयु: । अ॒भि॒ऽदासा॑त् । त्वम् । तान् । अ॒ग्ने॒ । मे॒न्या । अ॒मे॒नीन् । कृ॒णु॒ । स्वाहा॑ ॥६.१०॥
स्वर रहित मन्त्र
योस्मांश्चक्षुषा मनसा चित्त्याकूत्या च यो अघायुरभिदासात्। त्वं तानग्ने मेन्यामेनीन्कृणु स्वाहा ॥
स्वर रहित पद पाठय: । अस्मान् । चक्षुषा । मनसा । चित्त्या । आऽकूत्या । च । य: । अघऽयु: । अभिऽदासात् । त्वम् । तान् । अग्ने । मेन्या । अमेनीन् । कृणु । स्वाहा ॥६.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 10
विषय - सब सुख प्राप्ति का उपदेश।
पदार्थ -
(यः) जो (यः) घबड़ा देनेवाला (अघायुः) बुरा चीतनेवाला (अस्मान्) हमें (चक्षुषा) आँख से, (मनसा) मन से, (चित्या) बुद्धि से (च) और (आकूत्या) संकल्प से (अभिदासात्) सतावे। (अग्ने) हे सर्वव्यापक परमेश्वर ! (त्वम्) तू (तान्) उन्हें (मेन्या) वज्र से (अमेनीन्) वज्ररहित (कृणु) कर, (स्वाहा) यह सुवाणी वा नम्र प्रार्थना है ॥१०॥
भावार्थ - मनुष्य परमेश्वर में विश्वास करके प्रयत्नपूर्वक अपने दोषों का नाश करके बलवान् होवें ॥१०॥
टिप्पणी -
१०−(यः) अधर्मी (अस्मान्) धार्मिकान् (चक्षुषा) नेत्रेण (मनसा) हृदयेन (चित्त्या) (आकूत्या) सङ्कल्पेन (च) समुच्चये (यः) युप विमोहने−ड। विमोहकः (अघायुः) अ० १।२०।२। पापेच्छुः (अभिदासात्) दास वधे−लेट्, वैदिको धातुः। अभितो दास्नुयात्। हिंस्यात् (त्वम्) (तान्) अघायून् (अग्ने) हे सर्वव्यापक परमेश्वर (मेन्या) वज्रेण (अमेनीन्) अवज्रान् (कृणु) कुरु (स्वाहा) इयं सुवाणी प्रार्थनास्ति ॥