Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 90/ मन्त्र 2
सूक्त - अथर्वा
देवता - रुद्रः
छन्दः - अनुष्टुप्
सूक्तम् - इषुनिष्कासन सूक्त
यास्ते॑ श॒तं ध॒मन॒योऽङ्गा॒न्यनु॒ विष्ठि॑ताः। तासां॑ ते॒ सर्वा॑सां व॒यं निर्वि॒षाणि॑ ह्वयामसि ॥
स्वर सहित पद पाठया: । ते॒ । श॒तम् । ध॒मन॑य: । अङ्गा॑नि । अनु॑ । विऽस्थि॑ता: । तासा॑म् । ते॒ । सर्वा॑साम् । व॒यम् । नि: । वि॒षाणि॑ । ह्व॒या॒म॒सि॒ ॥९०.२॥
स्वर रहित मन्त्र
यास्ते शतं धमनयोऽङ्गान्यनु विष्ठिताः। तासां ते सर्वासां वयं निर्विषाणि ह्वयामसि ॥
स्वर रहित पद पाठया: । ते । शतम् । धमनय: । अङ्गानि । अनु । विऽस्थिता: । तासाम् । ते । सर्वासाम् । वयम् । नि: । विषाणि । ह्वयामसि ॥९०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 90; मन्त्र » 2
विषय - कर्म के फल का उपदेश।
पदार्थ -
(याः) जो (शतम्) सौ [असंख्य] (धमनयः) नाड़ियाँ (ते) तेरे (अङ्गानि अनु) अङ्गों में (विष्ठिताः) फैली हुई हैं। (ते) तेरी (तासाम्) उन (सर्वासाम्) सब [नाड़ियों] के (विषाणि) विषों को (नि=निष्कृष्य) निकाल कर (वयम्) हम (ह्वयामसि=०−मः) पुकारते हैं ॥२॥
भावार्थ - जैसे वैद्य शरीर के भीतरी रोगों को समझ कर दूर करता है, वैसे ही विद्वान् आत्मदोषों को मिटावे ॥२॥
टिप्पणी -
२−(याः) (ते) तव (शतम्) बह्व्यः (धमनयः) नाड्यः, अङ्गानि शरीरावयवान् (अनु) अनुसृत्य (विष्ठिताः) विविधं स्थिताः (तासाम्) (ते) तव (सर्वासाम्) धमनीनाम् (वयम्) (निः) निष्कृष्य (विषाणि) दुःखानि (ह्वयामसि) आह्वयामः ॥