ऋग्वेद - मण्डल 8/ सूक्त 2/ मन्त्र 2
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः
देवता - इन्द्र:
छन्दः - आर्षीगायत्री
स्वरः - षड्जः
नृभि॑र्धू॒तः सु॒तो अश्नै॒रव्यो॒ वारै॒: परि॑पूतः । अश्वो॒ न नि॒क्तो न॒दीषु॑ ॥
स्वर सहित पद पाठनृऽभिः॑ । धू॒तः । सु॒तः । अश्नैः॑ । अव्यः॑ । वारैः॑ । परि॑ऽपूतः । अश्वः॑ । न । नि॒क्तः । न॒दीषु॑ ॥
स्वर रहित मन्त्र
नृभिर्धूतः सुतो अश्नैरव्यो वारै: परिपूतः । अश्वो न निक्तो नदीषु ॥
स्वर रहित पद पाठनृऽभिः । धूतः । सुतः । अश्नैः । अव्यः । वारैः । परिऽपूतः । अश्वः । न । निक्तः । नदीषु ॥ ८.२.२
ऋग्वेद - मण्डल » 8; सूक्त » 2; मन्त्र » 2
अष्टक » 5; अध्याय » 7; वर्ग » 17; मन्त्र » 2
अष्टक » 5; अध्याय » 7; वर्ग » 17; मन्त्र » 2
विषयः - मानसिककर्माण्यपि तस्मै समर्पणीयानि ।
पदार्थः -
नहि परमात्मने तदीयमेवान्नं समर्पणीयं किन्तु मनुष्यैर्यत् किमपि शुभकर्म क्रियते तत् सर्वमेव तस्मायेव प्रदातव्यमित्यनया शिक्षते । यथा−अश्नैः= परमेश्वरप्रदत्तमश्नन्ति ये त अश्नाः=यज्ञशिष्टाशिनो यत्किमपीशेन प्रदत्तं तेनैव तुष्टाः । नान्यायेन परद्रव्यैषिणः । तैः । पुनः । वारैः=वारयन्ति निवारयन्ति परदुःखानि ते वाराः तैरितरक्लेशहारकैः । ईदृशैः । नृभिः=नेतृभिर्जनैः । धूतः=अवधूतः=आधावनेन संस्कृतः । अतएव परिपूतः=पवित्रीकृतः । अतएव अव्यः=अवति रक्षतीत्यव्यो रक्षकः । सुतः=परिष्कृतो यः खलु मानसिको यज्ञोऽस्ति । सोऽपि तस्मायेव समर्पणीयः । आधवने दृष्टान्तः−नदीषु निक्तः=स्नातः प्रक्षालितः । अश्वो न=अश्व इव ॥२ ॥