Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 2/ मन्त्र 3
    ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः देवता - इन्द्र: छन्दः - आर्षीगायत्री स्वरः - षड्जः

    तं ते॒ यवं॒ यथा॒ गोभि॑: स्वा॒दुम॑कर्म श्री॒णन्त॑: । इन्द्र॑ त्वा॒स्मिन्त्स॑ध॒मादे॑ ॥

    स्वर सहित पद पाठ

    तम् । ते॒ । यव॑म् । यथा॑ । गोभिः॑ । स्वा॒दुम् । अ॒क॒र्म॒ । श्री॒णन्तः॑ । इन्द्र॑ । त्वा॒ । अ॒स्मिन् । स॒ध॒ऽमादे॑ ॥


    स्वर रहित मन्त्र

    तं ते यवं यथा गोभि: स्वादुमकर्म श्रीणन्त: । इन्द्र त्वास्मिन्त्सधमादे ॥

    स्वर रहित पद पाठ

    तम् । ते । यवम् । यथा । गोभिः । स्वादुम् । अकर्म । श्रीणन्तः । इन्द्र । त्वा । अस्मिन् । सधऽमादे ॥ ८.२.३

    ऋग्वेद - मण्डल » 8; सूक्त » 2; मन्त्र » 3
    अष्टक » 5; अध्याय » 7; वर्ग » 17; मन्त्र » 3

    पदार्थः -
    यान्यपि लौकिकानि कर्माणि क्षेत्रकर्षणवाणिज्य- पाकादीन्यस्माकं भवेयुस्तानि सर्वाणीश्वरदृष्ट्यैव विधातव्यानि । यत् किमपि अशनं पानं स्वापो विश्रामो गमनं यात्रा तत्सर्वमुपकारार्थमेव विधातव्यमित्यर्थः । सर्वस्मिन् काले च परमात्माध्येयस्तं विस्मृत्य किमपि न करणीयमित्यनयर्चा शिक्षते यथा−हे इन्द्र ! यवं यथा=यथा भक्षणार्थं नानास्वादिष्ठद्रव्याणि मिश्रीकृत्य यवचूर्णैः पाकं विदधति तथा वयम् । गोभिः=गव्यैः पयोभिः । उपलक्षणमेतत् । विविधमधुरैर्मिष्टान्नैः । तं यवं=तं तं पाकम् । श्रीणन्तः=कुर्वन्तः सन्तः । यं स्वादुं=स्वादिष्ठम् । अकर्म=कुर्मः । तं पाकम् । ते=तुभ्यमेव समर्पयामः । हे इन्द्र=हे परमदेव ! अस्मिन्=दृश्यमाने हृदयरूपे । सधमादे=सहमदे सहानन्दकारिणि स्थाने । त्वा=त्वाम् । स्थापयामः=अत्र स्थापयित्वा तुभ्यं सर्वं निवेदयामः ॥३ ॥

    इस भाष्य को एडिट करें
    Top