ऋग्वेद - मण्डल 8/ सूक्त 2/ मन्त्र 4
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः
देवता - इन्द्र:
छन्दः - निचृदार्षीगायत्री
स्वरः - षड्जः
इन्द्र॒ इत्सो॑म॒पा एक॒ इन्द्र॑: सुत॒पा वि॒श्वायु॑: । अ॒न्तर्दे॒वान्मर्त्याँ॑श्च ॥
स्वर सहित पद पाठइन्द्र॑ । इत् । सो॒म॒ऽपाः । एकः॑ । इन्द्रः॑ । सु॒त॒ऽपाः । वि॒श्वऽआ॑युः । अ॒न्तः । दे॒वान् । मर्त्या॑न् । च॒ ॥
स्वर रहित मन्त्र
इन्द्र इत्सोमपा एक इन्द्र: सुतपा विश्वायु: । अन्तर्देवान्मर्त्याँश्च ॥
स्वर रहित पद पाठइन्द्र । इत् । सोमऽपाः । एकः । इन्द्रः । सुतऽपाः । विश्वऽआयुः । अन्तः । देवान् । मर्त्यान् । च ॥ ८.२.४
ऋग्वेद - मण्डल » 8; सूक्त » 2; मन्त्र » 4
अष्टक » 5; अध्याय » 7; वर्ग » 17; मन्त्र » 4
अष्टक » 5; अध्याय » 7; वर्ग » 17; मन्त्र » 4
विषयः - स एव सर्वेषामायुरप्यस्तीति ध्येयम् ।
पदार्थः -
अन्ये सूर्य्यादयो देवा नृपादयो मनुष्याश्च नोपास्या न ध्यातव्या न यज्ञे पूजनीया वा । केवलमीश्वर एव सर्वेषां नृणां सेव्य इति शिक्षत अनया । यथा−इन्द्र इद्=इन्द्रवाच्यः परमात्मैव । एवार्थ इत् । सोमपाः=सोमान् खाद्यादीन् यवादीन् वा पदार्थान् पिबति अनुगृह्णाति पाति रक्षति वा यः स सोमपाः समस्तपदार्थरक्षकः । सोमशब्दो वेदे पदार्थवचनः । अतएव । देवान् अन्तः=देवानां मध्ये । च=पुनः । मर्त्यान् अन्तः=मर्त्यानां मध्ये । एक इन्द्र एव । सुतपाः=यज्ञार्थं निष्पादितानि वस्तूनि सुताः तान् पिबति पातीति वा सुतपाः । पुनः । इन्द्र एव । विश्वायुः=विश्वेषां सर्वेषां प्राणिनामायुरायुःस्वरूपः । सर्वेषां प्राणानामपि प्राण इन्द्र एव । अतः स एव एक उपास्य इति फलितम् ॥४ ॥