Loading...
ऋग्वेद मण्डल - 8 के सूक्त 20 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 20/ मन्त्र 24
    ऋषिः - सोभरिः काण्वः देवता - मरूतः छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    याभि॒: सिन्धु॒मव॑थ॒ याभि॒स्तूर्व॑थ॒ याभि॑र्दश॒स्यथा॒ क्रिवि॑म् । मयो॑ नो भूतो॒तिभि॑र्मयोभुवः शि॒वाभि॑रसचद्विषः ॥

    स्वर सहित पद पाठ

    याभिः॑ । सिन्धु॑म् । अव॑थ । याभिः॑ । तूर्व॑थ । याभिः॑ । द॒श॒स्यथ॑ । क्रिवि॑म् । मयः॑ । नः॒ । भू॒त॒ । ऊ॒तिऽभिः॑ । म॒यः॒ऽभु॒वः॒ । शि॒वाभिः॑ । अ॒स॒च॒ऽद्वि॒षः॒ ॥


    स्वर रहित मन्त्र

    याभि: सिन्धुमवथ याभिस्तूर्वथ याभिर्दशस्यथा क्रिविम् । मयो नो भूतोतिभिर्मयोभुवः शिवाभिरसचद्विषः ॥

    स्वर रहित पद पाठ

    याभिः । सिन्धुम् । अवथ । याभिः । तूर्वथ । याभिः । दशस्यथ । क्रिविम् । मयः । नः । भूत । ऊतिऽभिः । मयःऽभुवः । शिवाभिः । असचऽद्विषः ॥ ८.२०.२४

    ऋग्वेद - मण्डल » 8; सूक्त » 20; मन्त्र » 24
    अष्टक » 6; अध्याय » 1; वर्ग » 40; मन्त्र » 4

    पदार्थः -
    हे मरुतः ! याभिः=ऊतिभिः । सिन्धुम्=समुद्रम् । अवथ=रक्षथ । याभिरूतिभिः । तूर्वथ=शत्रून् हिंस्थ । तुर्वी हिंसार्थः । याभिः । क्रिविम्=कूपम् । दशस्यथ=प्रयच्छथ । हे मयोभुवः=मयसः सुखस्य भावयितारः सुखप्रापकाः । हे असचद्विषः=अविद्यमानशत्रवः । यूयम् । शिवाभिरूतिभिः । नः=अस्माकम् । मयः=सुखम् । भूत=भावयत=उत्पादयत । यद्वा । भू प्राप्तौ । प्रापयत ॥२४ ॥

    इस भाष्य को एडिट करें
    Top