Loading...
ऋग्वेद मण्डल - 8 के सूक्त 20 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 20/ मन्त्र 25
    ऋषिः - सोभरिः काण्वः देवता - मरूतः छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    यत्सिन्धौ॒ यदसि॑क्न्यां॒ यत्स॑मु॒द्रेषु॑ मरुतः सुबर्हिषः । यत्पर्व॑तेषु भेष॒जम् ॥

    स्वर सहित पद पाठ

    यत् । सिन्धौ॑ । यत् । असि॑क्न्याम् । यत् । स॒मु॒द्रेषु॑ । म॒रु॒तः॒ । सु॒ऽब॒र्हि॒षः॒ । यत् । पर्व॑तेषु । भे॒ष॒जम् ॥


    स्वर रहित मन्त्र

    यत्सिन्धौ यदसिक्न्यां यत्समुद्रेषु मरुतः सुबर्हिषः । यत्पर्वतेषु भेषजम् ॥

    स्वर रहित पद पाठ

    यत् । सिन्धौ । यत् । असिक्न्याम् । यत् । समुद्रेषु । मरुतः । सुऽबर्हिषः । यत् । पर्वतेषु । भेषजम् ॥ ८.२०.२५

    ऋग्वेद - मण्डल » 8; सूक्त » 20; मन्त्र » 25
    अष्टक » 6; अध्याय » 1; वर्ग » 40; मन्त्र » 5

    पदार्थः -
    हे सुबर्हिषः=शोभनयज्ञाः । मरुतः । सिन्धौ=स्यन्दनशीले जलाशये । यद्भेषजं विद्यते । असिक्याम्=नद्याम् । यद् भेषजम् । समुद्रेषु पर्वतेषु च । यद् भेषजम् । तद्+आहरत ॥२५ ॥

    इस भाष्य को एडिट करें
    Top