ऋग्वेद - मण्डल 8/ सूक्त 20/ मन्त्र 26
विश्वं॒ पश्य॑न्तो बिभृथा त॒नूष्वा तेना॑ नो॒ अधि॑ वोचत । क्ष॒मा रपो॑ मरुत॒ आतु॑रस्य न॒ इष्क॑र्ता॒ विह्रु॑तं॒ पुन॑: ॥
स्वर सहित पद पाठविश्व॑म् । पश्य॑न्तः । वि॒भृ॒थ॒ । त॒नूषु॑ । आ । तेन॑ । नः॒ । अधि॑ । वो॒च॒त॒ । क्ष॒मा । रपः॑ । म॒रु॒तः॒ । आतु॑रस्य । नः॒ । इष्क॑र्त । विऽह्रु॑तम् । पुन॒रिति॑ ॥
स्वर रहित मन्त्र
विश्वं पश्यन्तो बिभृथा तनूष्वा तेना नो अधि वोचत । क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतं पुन: ॥
स्वर रहित पद पाठविश्वम् । पश्यन्तः । विभृथ । तनूषु । आ । तेन । नः । अधि । वोचत । क्षमा । रपः । मरुतः । आतुरस्य । नः । इष्कर्त । विऽह्रुतम् । पुनरिति ॥ ८.२०.२६
ऋग्वेद - मण्डल » 8; सूक्त » 20; मन्त्र » 26
अष्टक » 6; अध्याय » 1; वर्ग » 40; मन्त्र » 6
अष्टक » 6; अध्याय » 1; वर्ग » 40; मन्त्र » 6
विषयः - पुनस्तदनुवर्त्तते ।
पदार्थः -
हे मरुतः ! विश्वम्=पूर्वोक्तं सर्वं भेषजं पश्यन्तो यूयम् । तनुषु=शरीरभूतेषु अस्मासु । आविभृथ=आनीय स्थापयत । तेन । नोऽस्मान् । अधिवोचत=उपदिशत । चिकित्सन्तु । अस्माकं मध्ये । आतुरस्य=रोगिणः । रपः=पापम् । पापजनितरोग इत्यर्थः । रपसः=पापस्य । येन । क्षमा=शान्तिर्भवेत् । तथा । विहुतम्=विबाधितमङ्गम् । पुनः । इष्कर्त=निःशेषेण सम्पूर्णं कुरुत । निसो नलोपश्छान्दसः ॥२६ ॥