Loading...
ऋग्वेद मण्डल - 8 के सूक्त 21 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 21/ मन्त्र 1
    ऋषिः - सोभरिः काण्वः देवता - इन्द्र: छन्दः - विराडुष्निक् स्वरः - ऋषभः

    व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यव॑: । वाजे॑ चि॒त्रं ह॑वामहे ॥

    स्वर सहित पद पाठ

    व॒यम् । ऊँ॒ इति॑ । त्वाम् । अ॒पू॒र्व्य॒ । स्थू॒रम् । न । कत् । चि॒त् । भर॑न्तः । अ॒व॒स्यवः॑ । वाजे॑ । चि॒त्रम् । ह॒वा॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यव: । वाजे चित्रं हवामहे ॥

    स्वर रहित पद पाठ

    वयम् । ऊँ इति । त्वाम् । अपूर्व्य । स्थूरम् । न । कत् । चित् । भरन्तः । अवस्यवः । वाजे । चित्रम् । हवामहे ॥ ८.२१.१

    ऋग्वेद - मण्डल » 8; सूक्त » 21; मन्त्र » 1
    अष्टक » 6; अध्याय » 2; वर्ग » 1; मन्त्र » 1

    पदार्थः -
    हे अपूर्व्य=हे अपूर्व, हे असदृश । त्वामु=त्वामेव । वयम् । हवामहे । कीदृशम् । वाजे=विज्ञाने । चित्रमाश्चर्य्यमद्भुतम् । वयं कीदृशाः । कञ्चित्=किमपि । स्थूरम्=स्थूलं दृढं वस्तु । न+भरन्तः=न+धारयन्तः । पुनः । अवस्यवः=रक्षाकामाः ॥१ ॥

    इस भाष्य को एडिट करें
    Top