Loading...
ऋग्वेद मण्डल - 8 के सूक्त 28 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 28/ मन्त्र 1
    ऋषिः - मनुर्वैवस्वतः देवता - विश्वेदेवा: छन्दः - गायत्री स्वरः - षड्जः

    ये त्रिं॒शति॒ त्रय॑स्प॒रो दे॒वासो॑ ब॒र्हिरास॑दन् । वि॒दन्नह॑ द्वि॒तास॑नन् ॥

    स्वर सहित पद पाठ

    ये । त्रिं॒शति॑ । त्रयः॑ । प॒रः । दे॒वासः॑ । ब॒र्हिः । आ । अस॑दन् । वि॒दन् । अह॑ । द्वि॒ता । अ॒स॒न॒म् ॥


    स्वर रहित मन्त्र

    ये त्रिंशति त्रयस्परो देवासो बर्हिरासदन् । विदन्नह द्वितासनन् ॥

    स्वर रहित पद पाठ

    ये । त्रिंशति । त्रयः । परः । देवासः । बर्हिः । आ । असदन् । विदन् । अह । द्विता । असनम् ॥ ८.२८.१

    ऋग्वेद - मण्डल » 8; सूक्त » 28; मन्त्र » 1
    अष्टक » 6; अध्याय » 2; वर्ग » 35; मन्त्र » 1

    पदार्थः -
    त्रिंशति=त्रिंशत्संख्यायाः । परः=परस्तात् । त्रयः । त्रयस्त्रिंशदित्यर्थः । ये देवासः=देवाः=चक्षुरादीनि इन्द्रियाणि । विद्यन्ते । ते मम । बर्हिः=बृहदन्तःकरणमाश्रित्य । आसदन्=आसीदन्तु=उपविशन्तु । चञ्चलानि भूत्वा इतश्चेतश्च मा पलायिषत । एवं तत्र स्थित्वा । अह=निश्चयेन । विदन्=परमात्मानं विदन्तु=जानन्तु । अपि च । द्विता=द्विविधाः=कर्मदेवा ज्ञानदेवाश्च । असनन्=स्वस्वसमीपाद् दुर्व्यसनं अस्यन्तु=क्षिपन्तु=दूरीकुर्वन्तु । हे मनः ! तथा त्वं यतस्व यथा सर्वे इन्द्रियदेवा स्ववशे तिष्ठेयुः ॥१ ॥

    इस भाष्य को एडिट करें
    Top