ऋग्वेद - मण्डल 8/ सूक्त 3/ मन्त्र 19
ऋषिः - मेध्यातिथिः काण्वः
देवता - इन्द्र:
छन्दः - निचृद्बृहती
स्वरः - मध्यमः
निरि॑न्द्र बृह॒तीभ्यो॑ वृ॒त्रं धनु॑भ्यो अस्फुरः । निरर्बु॑दस्य॒ मृग॑यस्य मा॒यिनो॒ निः पर्व॑तस्य॒ गा आ॑जः ॥
स्वर सहित पद पाठनिः । इ॒न्द्र॒ । बृ॒ह॒तीभ्यः॑ । वृ॒त्रम् । धनु॑ऽभ्यः । अ॒स्फु॒रः॒ । निः । अर्बु॑दस्य । मृग॑यस्य । मा॒यिनः॑ । निः । पर्व॑तस्य । गाः । आ॒जः॒ ॥
स्वर रहित मन्त्र
निरिन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः । निरर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ॥
स्वर रहित पद पाठनिः । इन्द्र । बृहतीभ्यः । वृत्रम् । धनुऽभ्यः । अस्फुरः । निः । अर्बुदस्य । मृगयस्य । मायिनः । निः । पर्वतस्य । गाः । आजः ॥ ८.३.१९
ऋग्वेद - मण्डल » 8; सूक्त » 3; मन्त्र » 19
अष्टक » 5; अध्याय » 7; वर्ग » 28; मन्त्र » 4
अष्टक » 5; अध्याय » 7; वर्ग » 28; मन्त्र » 4
विषयः - अनया परमात्मनो न्यायं दर्शयति ।
पदार्थः -
हे इन्द्र ! त्वम् । बृहतीभ्यः=बृहद्भ्योऽत्र लिङ्गव्यत्ययः । धनुभ्यः=निर्जनप्रदेशेभ्योऽपि आनीय । वृत्रम्=चौरादिकम् । निरस्फुरः=निर्हंसि । स्फुरतिर्वधकर्मा । तथा । अर्बुदस्य=प्रजापीडकस्य । गाः=वाणीर्गोधनानि क्षेत्राणीत्येवं विधानि सर्वाणि वस्तूनि । निराजः=नितरां दूरेऽजसि क्षिपसि । तथा च । मृगयस्य=दुष्टाशयस्य मनुष्यव्याधस्य । मायिनः=कपटयुक्तस्य । पुनः । पर्वतस्य=पर्वतस्येव विघ्नोत्पादकस्य । गाः । निराजः=नितरां दूरे क्षिपसि विध्वंसयसीत्यर्थः । ईदृशं त्वामेव वयं गायामः ॥१९ ॥