ऋग्वेद - मण्डल 8/ सूक्त 3/ मन्त्र 20
ऋषिः - मेध्यातिथिः काण्वः
देवता - इन्द्र:
छन्दः - विराट्पङ्क्ति
स्वरः - पञ्चमः
निर॒ग्नयो॑ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इन्द्रि॒यो रस॑: । निर॒न्तरि॑क्षादधमो म॒हामहिं॑ कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥
स्वर सहित पद पाठनिः । अ॒ग्नयः॑ । रु॒रु॒चुः॒ । निः । ऊँ॒ इति॑ । सूर्यः॑ । निः । सोमः॑ । इ॒न्द्रि॒यः । रसः॑ । निः । अ॒न्तरि॑क्षात् । अ॒ध॒मः॒ । म॒हाम् । अहि॑म् । कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य॑म् ॥
स्वर रहित मन्त्र
निरग्नयो रुरुचुर्निरु सूर्यो निः सोम इन्द्रियो रस: । निरन्तरिक्षादधमो महामहिं कृषे तदिन्द्र पौंस्यम् ॥
स्वर रहित पद पाठनिः । अग्नयः । रुरुचुः । निः । ऊँ इति । सूर्यः । निः । सोमः । इन्द्रियः । रसः । निः । अन्तरिक्षात् । अधमः । महाम् । अहिम् । कृषे । तत् । इन्द्र । पौंस्यम् ॥ ८.३.२०
ऋग्वेद - मण्डल » 8; सूक्त » 3; मन्त्र » 20
अष्टक » 5; अध्याय » 7; वर्ग » 28; मन्त्र » 5
अष्टक » 5; अध्याय » 7; वर्ग » 28; मन्त्र » 5
विषयः - तस्यैव महिमा प्रगीयते ।
पदार्थः -
हे इन्द्र ! यदा । त्वम् । अन्तरिक्षात्=प्रदेशादपि । महाम्=महान्तम् । अहिम्=व्यापकमन्धकारं महाविघ्नञ्च । निः+अधमः=नितरां निष्काशयसि=दूरं गमयसि । तत्=तदा । पौंस्यम्=पुंसां महद् हितम् । कृषे=साधयसि । अहिनिरसने सति । अग्नयः । निः=नितराम् । रुरुचुः=प्रकाशन्ते । तथा । सूर्यः । नीरोचते उ । तथा । इन्द्रियः=इन्द्रस्य हितकरः । सोमो रसः । निः=निरतिशयेन रोचते ॥२० ॥