ऋग्वेद - मण्डल 8/ सूक्त 42/ मन्त्र 1
अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे॑दा॒ अमि॑मीत वरि॒माणं॑ पृथि॒व्याः । आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥
स्वर सहित पद पाठअस्त॑भ्नात् । द्याम् । असु॑रः । वि॒श्वऽवे॑दाः । अमि॑मीत । व॒रि॒माण॑म् । पृ॒थि॒व्याः । आ । अ॒सी॒द॒त् । विश्वा॑ । भुव॑नानि । स॒म्ऽराट् । विश्वा॑ । इत् । तानि॑ । वरु॑णस्य । व्र॒तानि॑ ॥
स्वर रहित मन्त्र
अस्तभ्नाद्द्यामसुरो विश्ववेदा अमिमीत वरिमाणं पृथिव्याः । आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि ॥
स्वर रहित पद पाठअस्तभ्नात् । द्याम् । असुरः । विश्वऽवेदाः । अमिमीत । वरिमाणम् । पृथिव्याः । आ । असीदत् । विश्वा । भुवनानि । सम्ऽराट् । विश्वा । इत् । तानि । वरुणस्य । व्रतानि ॥ ८.४२.१
ऋग्वेद - मण्डल » 8; सूक्त » 42; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 1
विषयः - N/A
पदार्थः -
असुरः=असून् प्राणान् राति ददातीत्यसुरः । विश्ववेदाः=विश्वानि सर्वाणि वेदांसि धनानि ज्ञानानि वा यस्य स विश्ववेदाः । वरुणः द्याम् । अस्तभ्नात्=स्तम्भवत् धारयति । पुनः पृथिव्याः । वरिमाणं परिमाणम् । अमिमीत=विरचयति । पुनः विश्वा=विश्वानि=सर्वाणि भुवनानि सृष्ट्वा । आसीदत्=अधितिष्ठति । तथा तेषां सम्राडपि स एव । हे मनुष्याः ! वरुणस्य । तान्येतानि व्रतानि । विश्वा+इत्=विश्वान्येव । सर्वाणि तस्यैव कार्य्याणीति ज्ञात्वा तमेव गायत पूजयत ॥१ ॥