Loading...
ऋग्वेद मण्डल - 8 के सूक्त 42 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 42/ मन्त्र 2
    ऋषिः - नाभाकः काण्वः देवता - वरुणः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    ए॒वा व॑न्दस्व॒ वरु॑णं बृ॒हन्तं॑ नम॒स्या धीर॑म॒मृत॑स्य गो॒पाम् । स न॒: शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सत्पा॒तं नो॑ द्यावापृथिवी उ॒पस्थे॑ ॥

    स्वर सहित पद पाठ

    ए॒व । व॒न्द॒स्व॒ । वरु॑णम् । बृ॒हन्त॑म् । न॒म॒स्य । धीर॑म् । अ॒मृत॑स्य । गो॒पाम् । सः । नः॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । वि । यं॒स॒त् । प॒तम् । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । उ॒पऽस्थे॑ ॥


    स्वर रहित मन्त्र

    एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् । स न: शर्म त्रिवरूथं वि यंसत्पातं नो द्यावापृथिवी उपस्थे ॥

    स्वर रहित पद पाठ

    एव । वन्दस्व । वरुणम् । बृहन्तम् । नमस्य । धीरम् । अमृतस्य । गोपाम् । सः । नः । शर्म । त्रिऽवरूथम् । वि । यंसत् । पतम् । नः । द्यावापृथिवी इति । उपऽस्थे ॥ ८.४२.२

    ऋग्वेद - मण्डल » 8; सूक्त » 42; मन्त्र » 2
    अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 2

    पदार्थः -
    हे मनुष्यगण ! बृहन्तं=महान्तम् । वरुणमेव । वन्दस्व । पुनः । धीरं । अमृतस्य । गोपां=गोपायितारं रक्षितारम् । तमेव । नमस्य=नमस्कुरु । स ईदृगीश्वरः । नोऽस्मभ्यम् । त्रिवरूथं=त्रिभूमिकं । शर्म=गृहम् । वियंसत्=विशेषेण यच्छतु । हे द्यावापृथिवी ! युवयोः । उपस्थे=क्रोडे वर्तमानान् । नोऽस्मान् । पातं रक्षतम् ॥२ ॥

    इस भाष्य को एडिट करें
    Top