Loading...
ऋग्वेद मण्डल - 8 के सूक्त 42 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 42/ मन्त्र 3
    ऋषिः - नाभाकः काण्वः देवता - वरुणः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सं शि॑शाधि । ययाति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावं॑ रुहेम ॥

    स्वर सहित पद पाठ

    इ॒माम् । धिय॑म् । शिक्ष॑माणस्य । दे॒व॒ । क्रतु॑म् । दक्ष॑म् । व॒रु॒ण॒ । सम् । शि॒शा॒धि॒ । यया॑ । अति॑ । विश्वा॑ । दुः॒ऽइ॒ता । तरे॑म । सु॒ऽतर्मा॑णम् । अधि॑ । नाव॑म् । रु॒हे॒म॒ ॥


    स्वर रहित मन्त्र

    इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि । ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम ॥

    स्वर रहित पद पाठ

    इमाम् । धियम् । शिक्षमाणस्य । देव । क्रतुम् । दक्षम् । वरुण । सम् । शिशाधि । यया । अति । विश्वा । दुःऽइता । तरेम । सुऽतर्माणम् । अधि । नावम् । रुहेम ॥ ८.४२.३

    ऋग्वेद - मण्डल » 8; सूक्त » 42; मन्त्र » 3
    अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 3

    पदार्थः -
    हे वरुणदेव ! शिक्षमाणस्य=स्वात्मानं परिश्रमे नियुञ्जानस्य । ममोपासकस्य । इमं धियं=इमां सुक्रियाम् । क्रतुं यज्ञम् । दक्षम्=आन्तरिकं बलञ्च । सं शिशाधि=सम्यक् तीक्ष्णीकुरु । यथा धिया । याभ्यां क्रतुदक्षाभ्याञ्च । विश्वा=सर्वाणि । दुरिता=दुरितानि । अतितरेम । पुनः । सुतर्माणं=सुष्ठु तारयित्रीम् । विज्ञानरूपाम् नावमधिरुहेम ॥३ ॥

    इस भाष्य को एडिट करें
    Top