ऋग्वेद - मण्डल 8/ सूक्त 45/ मन्त्र 1
आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥
स्वर सहित पद पाठआ । घ॒ । ये । अ॒ग्निम् । इ॒न्ध॒ते । स्तृ॒णन्ति॑ । ब॒र्हिः । आ॒नु॒ष॒क् । येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥
स्वर रहित मन्त्र
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा ॥
स्वर रहित पद पाठआ । घ । ये । अग्निम् । इन्धते । स्तृणन्ति । बर्हिः । आनुषक् । येषाम् । इन्द्रः । युवा । सखा ॥ ८.४५.१
ऋग्वेद - मण्डल » 8; सूक्त » 45; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 42; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 42; मन्त्र » 1
विषयः - सम्प्रत्यनेन सूक्तेन जीवधर्मान् दृश्यति ।
पदार्थः -
ये मानवाः । आसमन्तात् । घ=निश्चयेन । अग्निहोत्राय । अग्निम् । इन्धते=दीपयन्ति । ये च । आनुषग्=सप्रेम । अतिथिभ्यः । बर्हिरासनम् । स्तृणन्ति=आच्छादयन्ति । स्तृञ् आच्छादने । येषाञ्च । इन्द्रो जीवात्मा युवा=कार्य्ये शक्तः । सखा=मित्रभूतोऽस्ति । विप्रोऽस्ति । त एव धन्या इति शेषः ॥१ ॥