Loading...
ऋग्वेद मण्डल - 8 के सूक्त 46 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 46/ मन्त्र 1
    ऋषिः - वशोऽश्व्यः देवता - इन्द्र: छन्दः - पादनिचृद्गायत्री स्वरः - षड्जः

    त्वाव॑तः पुरूवसो व॒यमि॑न्द्र प्रणेतः । स्मसि॑ स्थातर्हरीणाम् ॥

    स्वर सहित पद पाठ

    त्वाऽव॑तः । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । व॒यम् । इ॒न्द्र॒ । प्र॒ने॒त॒रिति॑ प्रऽनेतः । स्मसि॑ । स्था॒तः॒ । ह॒री॒णा॒म् ॥


    स्वर रहित मन्त्र

    त्वावतः पुरूवसो वयमिन्द्र प्रणेतः । स्मसि स्थातर्हरीणाम् ॥

    स्वर रहित पद पाठ

    त्वाऽवतः । पुरुवसो इति पुरुऽवसो । वयम् । इन्द्र । प्रनेतरिति प्रऽनेतः । स्मसि । स्थातः । हरीणाम् ॥ ८.४६.१

    ऋग्वेद - मण्डल » 8; सूक्त » 46; मन्त्र » 1
    अष्टक » 6; अध्याय » 4; वर्ग » 1; मन्त्र » 1

    पदार्थः -
    हे पुरूवसो=भूरिधन सर्वसम्पत्तिमन् ! हे प्रणेतः=निखिलविधीनां संपूर्णभुवनानाञ्च विधातः । हे हरीणां स्थातः=हरणशीलानां भुवनानाम् अधिष्ठातः । हे इन्द्र ! परमैश्वर्य्यसंयुक्त महेश ! त्वावतः=त्वत्सदृशस्य तवैवेत्यर्थः । उपासकाः । वयं स्मसि=वयं स्मः । तस्मादस्मान् रक्षेति शेषः ॥१ ॥

    इस भाष्य को एडिट करें
    Top