ऋग्वेद - मण्डल 8/ सूक्त 64/ मन्त्र 1
उत्त्वा॑ मन्दन्तु॒ स्तोमा॑: कृणु॒ष्व राधो॑ अद्रिवः । अव॑ ब्रह्म॒द्विषो॑ जहि ॥
स्वर सहित पद पाठउत् । त्वा॒ । म॒न्द॒न्तु॒ । स्तोमाः॑ । कृ॒णु॒ष्व । राधः॑ । अ॒द्रि॒ऽवः॒ । अव॑ । ब्र॒ह्म॒ऽद्विषः॑ । ज॒हि॒ ॥
स्वर रहित मन्त्र
उत्त्वा मन्दन्तु स्तोमा: कृणुष्व राधो अद्रिवः । अव ब्रह्मद्विषो जहि ॥
स्वर रहित पद पाठउत् । त्वा । मन्दन्तु । स्तोमाः । कृणुष्व । राधः । अद्रिऽवः । अव । ब्रह्मऽद्विषः । जहि ॥ ८.६४.१
ऋग्वेद - मण्डल » 8; सूक्त » 64; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 44; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 44; मन्त्र » 1
विषयः - इन्द्रः पुनरप्यनेन सूक्तेन स्तूयते प्रार्थ्यते च ।
पदार्थः -
हे अद्रिवः=संसारविधातः ! अस्माकम् । स्तोमाः= स्तुतयः । त्वा=त्वाम् । उत्=उत्कृष्टं यथा । मन्दन्तु= प्रसादयन्तु । हे भगवन् ! जगत्पोषणाय । राधः=भोज्यम् । कृणुष्व=कुरु । अपि च ब्रह्मद्विषः अवजहि ॥१ ॥