ऋग्वेद - मण्डल 8/ सूक्त 68/ मन्त्र 1
आ त्वा॒ रथं॒ यथो॒तये॑ सु॒म्नाय॑ वर्तयामसि । तु॒वि॒कू॒र्मिमृ॑ती॒षह॒मिन्द्र॒ शवि॑ष्ठ॒ सत्प॑ते ॥
स्वर सहित पद पाठआ । त्वा॒ । रथ॑म् । यथा॑ । ऊ॒तये॑ । सु॒म्नाय॑ । व॒र्त॒या॒म॒सि॒ । तु॒वि॒ऽकू॒र्मिम् । ऋ॒ति॒ऽसह॑म् । इन्द्र॑ । शवि॑ष्ठ । सत्ऽप॑ते ॥
स्वर रहित मन्त्र
आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । तुविकूर्मिमृतीषहमिन्द्र शविष्ठ सत्पते ॥
स्वर रहित पद पाठआ । त्वा । रथम् । यथा । ऊतये । सुम्नाय । वर्तयामसि । तुविऽकूर्मिम् । ऋतिऽसहम् । इन्द्र । शविष्ठ । सत्ऽपते ॥ ८.६८.१
ऋग्वेद - मण्डल » 8; सूक्त » 68; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 1; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 1; मन्त्र » 1
विषयः - पुनरपीन्द्रनामधेयेन परमात्ममहिम्नः स्तूयते ।
पदार्थः -
हे शविष्ठ ! महाबलाधि देव ! सत्पते=सतां पालक ! हे इन्द्र=परमैश्वर्य्यसंयुक्त भगवन् ! रथं यथा=रथमिव । ऊतये=रक्षायै । सुम्नाय=स्वाध्याय ज्ञानाय सुखाय च । तुविकूर्मिम्=बहुकर्माणम् । ऋतीसहम्=हिंसकानां दण्डयितारं निखिलविघ्ननिवारकम् । त्वा=त्वाम् । आवर्तयामसि=आवर्तयामः । आकृषाम इत्यर्थः ॥१ ॥