ऋग्वेद - मण्डल 8/ सूक्त 74/ मन्त्र 3
पन्यां॑सं जा॒तवे॑दसं॒ यो दे॒वता॒त्युद्य॑ता । ह॒व्यान्यैर॑यद्दि॒वि ॥
स्वर सहित पद पाठपन्या॑सम् । जा॒तऽवे॑दसम् । यः । दे॒वऽता॑ति । उत्ऽय॑ता । ह॒व्यानि॑ । ऐर॑यत् । दि॒वि ॥
स्वर रहित मन्त्र
पन्यांसं जातवेदसं यो देवतात्युद्यता । हव्यान्यैरयद्दिवि ॥
स्वर रहित पद पाठपन्यासम् । जातऽवेदसम् । यः । देवऽताति । उत्ऽयता । हव्यानि । ऐरयत् । दिवि ॥ ८.७४.३
ऋग्वेद - मण्डल » 8; सूक्त » 74; मन्त्र » 3
अष्टक » 6; अध्याय » 5; वर्ग » 21; मन्त्र » 3
अष्टक » 6; अध्याय » 5; वर्ग » 21; मन्त्र » 3
विषयः - N/A
पदार्थः -
हे मनुष्याः ! पन्यांसम्=पननीयं स्तवनीयम् । जातवेदसम्=ज्ञानोत्पत्तिसाधनमीशं प्रार्थयध्वम् । यः । देवताति=देवानां सर्वेषां पदार्थानां भरणपोषणादिकं यत्र तायते । सा देवतातिः । तस्यां दिवि जगति । उद्यता=उद्योगवर्धकानि । हव्यानि=हव्यवद् सुमधुराणि भोज्यानि । ऐरयत्=प्रेरयति ॥३ ॥