ऋग्वेद - मण्डल 8/ सूक्त 74/ मन्त्र 4
आग॑न्म वृत्र॒हन्त॑मं॒ ज्येष्ठ॑म॒ग्निमान॑वम् । यस्य॑ श्रु॒तर्वा॑ बृ॒हन्ना॒र्क्षो अनी॑क॒ एध॑ते ॥
स्वर सहित पद पाठआ । अ॒ग॒न्म॒ । वृ॒त्र॒हन्ऽत॑मम् । ज्येष्ठ॑म् । अ॒ग्निम् । आन॑वम् । यस्य॑ । श्रु॒तर्वा॑ । बृ॒हन् । आ॒र्क्षः । अनी॑के । एध॑ते ॥
स्वर रहित मन्त्र
आगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् । यस्य श्रुतर्वा बृहन्नार्क्षो अनीक एधते ॥
स्वर रहित पद पाठआ । अगन्म । वृत्रहन्ऽतमम् । ज्येष्ठम् । अग्निम् । आनवम् । यस्य । श्रुतर्वा । बृहन् । आर्क्षः । अनीके । एधते ॥ ८.७४.४
ऋग्वेद - मण्डल » 8; सूक्त » 74; मन्त्र » 4
अष्टक » 6; अध्याय » 5; वर्ग » 21; मन्त्र » 4
अष्टक » 6; अध्याय » 5; वर्ग » 21; मन्त्र » 4
विषयः - N/A
पदार्थः -
वृत्रहन्तमम्=अतिशयेन वृत्राणां विघ्नानां हन्तारम् । ज्येष्ठम् । आनवम्=मनुष्यमित्रम् । अनुरिति मनुष्यनाम । अग्निं=सर्वाधारम् । आगन्म=अभिमुखं गच्छेम । यस्य+अनीके=कृपया विद्यमानः । श्रुतर्वा=श्रोतृजनः । बृहन्=महान् । आर्क्षः=मनुष्यहितकारी च । एधते=वर्धते ॥४ ॥