ऋग्वेद - मण्डल 8/ सूक्त 74/ मन्त्र 5
अ॒मृतं॑ जा॒तवे॑दसं ति॒रस्तमां॑सि दर्श॒तम् । घृ॒ताह॑वन॒मीड्य॑म् ॥
स्वर सहित पद पाठअ॒मृत॑म् । जा॒तऽवे॑दसम् । ति॒रः । तमां॑सि । द॒र्श॒तम् । घृ॒तऽआ॑हवनम् । ईड्य॑म् ॥
स्वर रहित मन्त्र
अमृतं जातवेदसं तिरस्तमांसि दर्शतम् । घृताहवनमीड्यम् ॥
स्वर रहित पद पाठअमृतम् । जातऽवेदसम् । तिरः । तमांसि । दर्शतम् । घृतऽआहवनम् । ईड्यम् ॥ ८.७४.५
ऋग्वेद - मण्डल » 8; सूक्त » 74; मन्त्र » 5
अष्टक » 6; अध्याय » 5; वर्ग » 21; मन्त्र » 5
अष्टक » 6; अध्याय » 5; वर्ग » 21; मन्त्र » 5
विषयः - N/A
पदार्थः -
हे ज्ञानिजनाः ! अमृतम्=अविनश्वरम् । जातवेदसम् । तमांसि=अज्ञानानि तिरस्कर्तारम् । दर्शतम्+घृताऽऽहवनम्= घृतादीनां दातारम् । ईड्यं=स्तुत्यं तमीशं भजध्वमिति शेषः ॥५ ॥