ऋग्वेद - मण्डल 8/ सूक्त 75/ मन्त्र 1
यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒ अश्वाँ॑ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ॥
स्वर सहित पद पाठयु॒क्ष्व । हि । दे॒व॒ऽहूत॑मान् । अश्वा॑न् । अ॒ग्ने॒ । र॒थीःऽइ॑व । नि । होता॑ । पू॒र्व्यः॑ । स॒दः॒ ॥
स्वर रहित मन्त्र
युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिव । नि होता पूर्व्यः सदः ॥
स्वर रहित पद पाठयुक्ष्व । हि । देवऽहूतमान् । अश्वान् । अग्ने । रथीःऽइव । नि । होता । पूर्व्यः । सदः ॥ ८.७५.१
ऋग्वेद - मण्डल » 8; सूक्त » 75; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 24; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 24; मन्त्र » 1
विषयः - पुनरपि परमात्मदेवस्य महिमा प्रदर्श्यते ।
पदार्थः -
हे अग्ने=सर्वाधारेश ! देवहूतमान्=देवानां प्राणिनां हूतमान्=दातृतमान् । अश्वान्=सूर्य्यादिलोकान् । युक्ष्व= सुकार्य्ये नियोजय । अत्र दृष्टान्तः । रथीरिव=यथा रथी अश्वान् नियोजयति । हे भगवन् ! त्वं होता=दाता । पूर्व्यः=पूर्णो वा । नि+सदः=उपविश ॥१ ॥