Loading...
ऋग्वेद मण्डल - 8 के सूक्त 75 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 75/ मन्त्र 2
    ऋषिः - विरुपः देवता - अग्निः छन्दः - विराड्गायत्री स्वरः - षड्जः

    उ॒त नो॑ देव दे॒वाँ अच्छा॑ वोचो वि॒दुष्ट॑रः । श्रद्विश्वा॒ वार्या॑ कृधि ॥

    स्वर सहित पद पाठ

    उ॒त । नः॒ । दे॒व॒ । दे॒वान् । अच्छ॑ । वो॒चः॒ । वि॒दुःऽत॑रः । श्रत् । विश्वा॑ । वार्या॑ । कृ॒धि॒ ॥


    स्वर रहित मन्त्र

    उत नो देव देवाँ अच्छा वोचो विदुष्टरः । श्रद्विश्वा वार्या कृधि ॥

    स्वर रहित पद पाठ

    उत । नः । देव । देवान् । अच्छ । वोचः । विदुःऽतरः । श्रत् । विश्वा । वार्या । कृधि ॥ ८.७५.२

    ऋग्वेद - मण्डल » 8; सूक्त » 75; मन्त्र » 2
    अष्टक » 6; अध्याय » 5; वर्ग » 24; मन्त्र » 2

    पदार्थः -
    उत=अपि च । हे देव ! देवान्=शोभनकर्मवतः । विदुष्टरः=अतिशयेन विदुषः । नोऽस्मान् । अच्छ=अभिमुखं यथा तथा । वोचः=उपदिश । तथा विश्वा=सर्वाणि । वार्य्या=वरणीयानि ज्ञानानि । श्रत्=सत्यानि । कृधि=विधेहि ॥२ ॥

    इस भाष्य को एडिट करें
    Top