ऋग्वेद - मण्डल 7/ सूक्त 71/ मन्त्र 5
यु॒वं च्यवा॑नं ज॒रसो॑ऽमुमुक्तं॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व॑म् । निरंह॑स॒स्तम॑सः स्पर्त॒मत्रिं॒ नि जा॑हु॒षं शि॑थि॒रे धा॑तम॒न्तः ॥
स्वर सहित पद पाठयु॒वम् । च्यवा॑नम् । ज॒रसः॑ । अ॒मु॒मु॒क्त॒म् । नि । पे॒दवे॑ । ऊ॒ह॒थुः॒ । आ॒शुम् । अश्व॑म् । निः । अंह॑सः । तम॑सः । स्पर्त॑म् । अत्रि॑म् । नि । जा॒हु॒षम् । शि॒थि॒रे । धा॒तम् । अ॒न्तरिति॑ ॥
स्वर रहित मन्त्र
युवं च्यवानं जरसोऽमुमुक्तं नि पेदव ऊहथुराशुमश्वम् । निरंहसस्तमसः स्पर्तमत्रिं नि जाहुषं शिथिरे धातमन्तः ॥
स्वर रहित पद पाठयुवम् । च्यवानम् । जरसः । अमुमुक्तम् । नि । पेदवे । ऊहथुः । आशुम् । अश्वम् । निः । अंहसः । तमसः । स्पर्तम् । अत्रिम् । नि । जाहुषम् । शिथिरे । धातम् । अन्तरिति ॥ ७.७१.५
ऋग्वेद - मण्डल » 7; सूक्त » 71; मन्त्र » 5
अष्टक » 5; अध्याय » 5; वर्ग » 18; मन्त्र » 5
अष्टक » 5; अध्याय » 5; वर्ग » 18; मन्त्र » 5
Meaning -
You exempt the active and dynamic from the decay of age, raise the relentlessly progressive commonwealth to higher achievements in no time, you save the man of threefold freedom of body, mind and soul from sin and ignorance, and you rejuvenate the optimist back to inner light and strength when he feels exhausted.